________________
[४३०] हैमशब्दानुशासनस्य
गोः पुरीषे । ६।२।५० । गोः पुरीषेऽर्थे मयट् स्यात् । गोमयम्। पयस्तु गव्यम् ।।५०॥
वीहेः पुरोडाशे। ६ । २। ५१ । बीहेः पुरोडाशे विकारे नित्यं मयट् स्यात् । व्रीहिमयः पुरोडाशः । पुरोडाश इति किम् ? त्रैह औदनः, वैहं भस्म
तिल-यवाद अनाम्नि । ६ । २ । ५२ ।
आभ्यां विकारेऽवयवे चाऽनाम्नि मयट् स्यात् । तिलमयम् , यवमयम् । अनाम्नीति किम् ? तैलम् , यावः ॥५२॥
षिष्टात् । ६।२। ५३ । पिष्टाद् विकारेऽनाम्नि मयट् स्यात् । पिष्टमयम् ॥५३॥
नाम्नि कः। ६।२ । ५४ । पिष्टाद् विकारे नाम्नि कः स्यात् । पिष्टिका ।। ५४ ।। योगोदोहाद् इन हियङ्गुश्वास्य । ६।२।५५
अस्माद् विकारे नाम्नीनञ् स्यात् , तद्योगे च प्रकृते हियाः। हैयङ्गवीनं नवनीतं घृतं वा । नाम्नीत्येव ? मोगोवोहं तक्रम् ॥ ५५ ॥
अपो यञ् वा । ६।२। ५६ । अपो विकारे यञ् वा स्यात् । आप्यम्, अम्मयम् ॥५६॥
लुप् बहुलं पुष्पमुले । ६ । २ । ५७ । विकारेऽवयवार्थस्य पुष्पे मूले चार्थे प्रत्ययस्य बहुलं लुप् स्यात् । मल्लिका पुष्पम्, विदारी मूलम् । बहुलमिति किम् ? वारणं पुष्पम् , ऐरण्डं मूलम् ॥ ५७ ।।
मयटि परे पूर्वपकारस्य मकारो जातः । मयट् तु ६-२-४६ सूत्रात् स्यात् । “विकारे" (६-२-३०) सूत्रस्य चानुत्तिः ।