SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [४२९] मानात् क्रीतवत् । ६ । २ । १४ । मानं सङ्ख्यादि । तदर्थाद विकारे क्रीते इव प्रत्ययाः स्युः । यथा शतेन क्रीतः शत्यः, शतिको वा, तथा तद्विकारेऽपि ॥४४॥ . हेमाऽऽदिभ्योऽञ् । ६ । २।४५। एभ्यो यथायोगं विकारेऽवयवे चाऽञ् स्यात् । हैमी यष्टिः, राजतः ॥ ४५ ॥ अभक्ष्याऽऽच्छादने वा मयद।६।२।४६। षष्टयन्ताद् भक्ष्याच्छादनवर्जे यथायोगं विकारेऽवयवे च मयड् वा स्यात् । भस्ममयम् , भास्मनम् । अभक्ष्याच्छादन इति किम् ? मौद्गः सूपः, कार्पासः पटः, ॥४६॥ शर-दर्भ-कूदी तृण-सामचल्वजात् । ६।२।४७। एभ्योऽभक्ष्याच्छादने विकारेऽवयवे च नित्यं मयट् स्यात्। शरमयम् , दर्भमयम् , कूदीमयम् , तृणमयम् , सोममयम् , वल्वजमयम् ॥ ४७ ॥ एकस्वरात् । ६ । २।४८। अस्माद् भक्ष्याच्छादनवर्जे विकारेऽवयवे च नित्यं मयट् स्यात् । वाङ्मयम् ॥४८॥ दोरप्राणिनः । ६ । २।४९। अप्राण्यांद् दोरभक्ष्याच्छादने विकारेऽवयवेचमयट् स्यात् । आम्रमयम् । अप्राणिन इति किम् ? चाषम् , चापमयम् ॥४९॥ १ दुसंज्ञकाद् अप्राणिवाचिनः अत्राऽप्राणीति त्रसप्राणिभिन्नं ज्ञेयम् , इतरथाऽऽम्राऽऽदीनामपि मयट् न स्यात् । जनानामाचाराङ्गादिसूत्रेषु आम्रादिष्वपि जीवस्य प्रतिपादनाद्, विज्ञानसिद्धत्वाच टित्त्वात् स्त्रियां लीः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy