________________
हेमशब्दानुशासनस्य
उष्ट्रादकञ् । ६ । २ । ३६ ।
उष्ट्राद् विकारेऽवयवे चाकञ् स्यात् । औष्ट्रकं मांसमङ्गं वा ॥ ३६ ॥
[ ४२८ ]
उमोर्णाद् वा | ६ | २ | ३७ ।
आभ्यां विकारेऽवयवे चाsकव् वा स्यात् । औमकम्, औमम् । और्णकम् और्णः कम्बलः ॥ ३७ ॥
"
एण्या एयञ् । ६ । २ । ३८ ।
roar विकारेऽवयवे चैयञ् स्यात् । ऐणेयं मांसमङ्ग वा ॥ ३८ ॥
कौशेयम् । ६ । २ । ३९ ।
कोशाद विकारे एयन् स्यात् । कौशेयं वस्त्रं सूत्रं वा
॥ ३९ ॥
परशव्याद् यलुकू च । ६ । २ । ४० । अस्माद् विकारेऽण् स्यात्, यस्य लुक् च । पारशवम्
1180 11
कंसीयात् ञ्यः । ६ अस्माद् विकारे यः स्यात,
। २ । ४१ । तद्योगे यलुकू च ।
कांस्यम् ॥ ४१ ॥
हेमार्थात् माने । ६ । २ । ४२ ।
अस्मात् माने विकारेऽण् स्यात् । हाटको निष्कः । मान इति किम् ? हाटकमयी यष्टिः ॥ ४२ ॥ द्रोर्वयः । ६ । २ । ४३ ।
द्रोर्माने विकारे वयः स्यात् । द्रुवयं मानम् ॥ ४३ ॥