SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः ॥ द्वितीयः पादः ॥ रागात् 'टो रक्ते । ६ । २ । १ । रज्यते येन कुसुम्भादिना तदर्थात् तृतीयान्ताद् रक्तमित्यर्थे यथाविहितं प्रत्ययः स्यात् । कौसुम्भं वासः ॥ १ ॥ [ ४२३] लाक्षा- रोचनाद् इण् । ६ । २ । २ | आभ्यां दान्ताभ्यां रक्तमित्यर्थे इकणू स्यात् । लाक्षिकम्, रौचनिकम् ॥ २ ॥ शकल कर्द्दमाद् वा । ६ । २ । ३ । • आभ्यां दान्ताभ्यां रक्तमित्यर्थे इकणू वा स्यात् । शाकलिकम्, शाकलम् । कामिकम्, काईमम् ॥ ३ ॥ नील-पीताद् अ-कम् । ६ । २ । ४ । आभ्यां दान्ताभ्यां रक्तमित्यर्थे यथासङ्ख्यमको स्याताम् । नीलम्, पीतकम् ॥ ४ ॥ उदितगुरोर्भाद्युक्ते । ६ । २ । ५ । उदितो बृहस्पतिर्यत्र नक्षत्रे तदर्थाद् यन्ताद् युक्तेऽन्ये यथाविहितं प्रत्ययः स्यात् । पौषं वर्षम् ॥ ५ ॥ चन्द्रयुक्तात् काले, लुप् तु अप्रयुक्ते | ६ | २|६| चन्द्रेण युक्तं यन्नक्षत्रं तदर्थात् टान्ताद् युक्ते कालेऽर्थे यथाविहितं प्रत्ययः स्यात्, अप्रयुक्ते तु कालार्थे लुप् स्यात् । पौषमहः, अद्य पुष्यः ॥ ६ ॥ १ टः, इत्येकदेशेन समुदायोपलक्षणत्वात् तृतीयान्तादित्यर्थः । शुक्लादीनां वर्णानां वर्गान्तरकरणमिह रक्तार्थः । कुसुम्मेन रक्तं कौसुम्भम् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy