SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ [४२५] हैमशब्दानुशासनस्य द्वन्द्वाद् ईयः । ६ । २ । ७। चन्द्रयुक्तं यन्नक्षत्रं तदर्थाद् द्वन्द्वात् टान्ताद् युक्ते कालेऽर्थे ईयः स्यात् । राधानुराधीयमहः ॥ ७॥ श्रवणाऽश्वत्थात् नाम्नि अः । ६।२८ · चन्द्रयुक्तार्थात् श्रवणादश्वत्थाच्च टान्ताद् युक्ते काले ऽर्थे संज्ञायामः स्यात् । श्रवणा रात्रिः, अश्वत्था पौर्णमासी। नानीति किम् ? श्रावणमहः , आश्वत्थमहः ॥८॥ षष्ठ्याः समूहे। ६ । २।९। षष्ठयन्तात् समूहेऽर्थे यथाविहितं प्रत्ययाः स्युः। चापम् , स्त्रैणम् ॥९॥ भिक्षाऽऽदेः । ६ । २ । १०। एभ्यः षष्ठ्यन्तेभ्यः समूहे यथाविहितं प्रत्ययः स्यात। भैक्षम् , गार्भिणम् ॥ १०॥ क्षुद्रकमालवात् सेनानाम्नि । ६।२।११। अस्मात् षष्ठयन्तात् समूहेऽण् स्यात् , सेनासंज्ञायाम् । क्षौद्रकमालवी सेना ॥ ११ ॥ गोत्रोक्ष-वत्सोष्ट्र-वृद्धाऽजोरभ्र-मनुष्य-राजराजन्य-राजपुत्रादकर । ६।३।१२। गोत्रप्रत्ययान्ताद् उक्षादेश्च समूहेऽकञ् स्यात् । गार्गकम् , औक्षकम् , वात्सकम् , : औष्ट्रकम् , वार्द्धकम् । आजकम् , औरभ्रकम् , मानुष्यकम् , राजकम् , राजन्यकम् , राजपुत्रकम् ॥ १२ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy