SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ [४२२] हैमशब्दानुशासनस्य द्रीत्रो वा । ६ । १ । १३९। द्रीजन्तात् परस्य युवार्थस्य लुब् वास्यात्। औदुम्परिः, औदुम्बरायणो वा ॥ १३९ ॥ जिदार्षाद् अणिोः । ६ । १ । १४० । जिद् आर्षश्च योऽपत्यप्रत्ययः तदन्तात् परस्य यूनि अण इञश्च लुप् स्यात् । तैकायनिः पिता, तैकायनिः पुत्रः, वाशिष्ठः पिता, वाशिष्ठः पुत्रः ॥ १४० ॥ . अब्राह्मणात् । ६ । १ । १४१ । अब्राह्मणाद् वृद्धप्रत्ययान्ताद् युवार्थस्य लुप् स्यात् । आङ्गः पिता, आङ्गः पुत्रः। अब्राह्मणादिति किम् ? गार्ग्यः पिता, गाायणः पुत्रः ॥ १४१॥ पैलाऽऽदेः। ६ । १ । १४२ । एभ्यो यूनि प्रत्ययस्य लुप् स्यात् । पैलः पिता, पैलः पुत्रः, शालङ्किः पिता, शालङ्किः पुत्रः॥ १४२ ।। प्राच्यञोऽतौल्वल्यादेः। ६ । १ । १४३। प्राच्यगोत्रे इजन्तात् तौल्वल्यादिवर्जाद यूनि प्रत्ययस्य लुप् स्यात्। पानागारिः पिता, पानागारिः पुत्रः, मान्थरेषणिः पिता, मान्थरेषणिः पुत्रः। प्राच्य इति किम् ? दाक्षिः पिता, दाक्षायणः पुत्रः । तौल्वल्यादिवर्जनं किम् ? तौल्वलिः पिता, तौल्वलायनः पुत्रः ॥ १४३ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ षष्ठस्याध्यायस्य . प्रथमः पाद समाप्तः॥६।१॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy