________________
-
[४१४] हैमशब्दानुशासनस्य
यैयकत्रावसमासे वा । ६।१।९७। कुलान्तात् कुलाचाऽपत्ये य एयकञ् वा स्यात् , न चेदसौ समासे । कुल्पः कौलेयकः, कुलीनः । बहुकुल्या, बाहुकुलेयकः, बहुकुलीनः । असमास इति किम् ? आढ्य. कुलीनः ॥९७॥
दुष्कुलाद् एयण वा । ६ । १ । ९८ । अस्मादपत्ये एयण् वा स्यात् । दौष्कुलेयः, दुष्कुलीना ॥९८॥
महाकुलाद् वाऽजीनौ । ६ । १ । ९९ ॥
अस्मादपत्ये ऽ ईनञ् च वा स्याताम् । माहाकुलः, माहाकुलीना, महाकुलीनः ॥ ९९ ॥ '
कुर्वादेर्व्यः । ६।१।१००। एभ्योऽपत्ये ज्या स्यात् । कौरव्या, शाङ्कव्याः॥१०॥
. सम्राजः क्षत्रिये ।६।१।१०१ । अस्मात् क्षत्रियेऽपत्ये ज्य: स्यात् । साम्राज्यः क्षत्रियः ॥१०१॥ सेनान्त-कारलक्ष्मणाद् इन च । ६ । १ । १०२। __ सेनान्तात् कार्वथात् लक्ष्मणाचाऽपत्ये इञ् ज्यश्व स्यात् । हारिणिः, हारिषेण्या, तान्तुवायिः, तान्तु. वाय्या, लाक्ष्मणिः, लाक्ष्मण्यः ॥ १०२॥
सुयाम्नः सौवीरेष्वायनिञ् । ६। १ । १०३ । ।
सुयाम्नः सौवीरेषु योर्थस्तवृत्तरपत्ये आयनिज स्यात् । सौयामायनिः ॥१०३ ॥