________________
. स्वोपज्ञलघुचिः [४१५] . पाण्टाहति-मिमतात् णश्च । ६ । १ । १०४ ।
आभ्यां सौवीरेषु योऽर्थः तद्वृत्तिभ्यामपत्येऽण आयनिञ् च स्यात् । पाण्टाहृतः, पाण्टाहृतायनिः सौवीरगोत्र। एवं मैमतः, मैमतायनिर्वा ॥ १०४ ॥ भागवित्ति-तार्णविन्दवाऽऽकशापेयात् निन्दा
यामिकण वा। ६ । १ । १०५ । एभ्यः सौवीरेषु यो वृद्धः तवृत्तिभ्यो यूनिइकम्वा स्यात्, निन्दायां गम्यायाम् । भागवित्तिकः भागवित्तायनो वा जाल्मः। तार्णविन्दविका, तार्णविन्दविर्वा । आकशापेयिका, आकशापेयिा ॥ १०५॥ सौयामायनि-यामुन्दायनि-वार्ष्यायणेरी
यश्च वा । ६.१ ।१०६। एभ्यः सौवीरवृद्धवृत्तिभ्यो यूनि ईय-हकणौ वा स्याता, निन्दायाम् । सौयामायनीयः, सौयामायनिकः, सौयामायनिर्वा निन्द्यो युवा । एवं यामुन्दायनीया, यामुन्दायनिकः, यामुन्दायनिर्वा । बाायणीयः, वार्ष्यायणिकः, वार्ष्यायणिर्वां ॥१०६॥ .... तिकादेरायनिज । ६। १ । १०७।
एभ्योऽपत्ये आयनिञ् स्यात् । तैकायनिः, कैतवायनिः॥१०॥ दगुकोशल-कार-च्छाग-वृषाद यादिः। ६ । १।१०८) - एभ्योऽपत्ये यादिरायनिञ् स्यात् । दागव्यायनि:, कौशल्यायनिः कार्य्याियणिः छाग्यायनिः, वाया यणिः ॥ १०८ ॥