SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [४१३] . मातृ-पित्रादेयण-ईयणौ । ६ । २।९०| मातृपितृशब्दावादी यस्य स्वनन्तस्य तस्मादपत्ये डेयणीयणौ स्याताम् । मातृष्वसेयः, मातृष्वतीयः । पैतृध्वसेयः, पैतृष्वतीयः ॥ ९० ॥ श्वशुराद् यः । ६ । १ । ९१ । अस्मादपत्ये यः स्यात् । श्वशुर्यः ॥ ९१ ॥ जातौ राज्ञः।६।१।९२। राज्ञोऽपत्ये जातो गम्यायां यः स्यात् । राजन्यः, क्षत्रिया जातिश्चेत् ॥ ९२॥ क्षत्रादियः। ६ । १ । ९३। .. क्षत्रादपत्ये जातावियः स्यात् । क्षत्रियः, जातिश्चेत् ॥९३ ॥ मनोर्याऽणौ पश्चान्तः ।६।१।९४। मनोरपत्ये याऽणौ स्यातां, तद्योगे पश्चान्तः, जाती गम्यायाम् । मनुष्याः, मानुषाः ॥ ९४ ॥ . माणवः कुत्सायाम् । ६ ।१।९५ । मनोरपत्येऽणि कुत्सायां नो णः स्यात् । मनोरपत्यं मूढ माणवः ॥ ९५ ॥ कुलाद् ईनः । ६ । १ । ९६ । कुलान्तात् केवलकुलाचाऽपत्ये ईनः स्यात् । बहुकुलीन:, कुलीनः ॥ ९६ ॥ १ अत्र डेयण् , डित्त्वात् ‘डित्यन्त्यस्वरादेः " (२-1-11४) इति सूत्रेण स्वरादेर्लक् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy