________________
___ स्वोपक्षलघुवृत्तिः [४०९] . ऋषि-वृष्ण्यन्धक कुरुभ्यः। ६। १।६१।। ___ ऋष्यादिवाचिभ्योऽपत्येऽण् स्यात् । वाशिष्ठः, वासुदेवः, श्वाफल्का, नाकुलः ॥ ६१ ॥ कन्या-त्रिवेण्याः कनीन-त्रिवणं च । ६ । १ । ६२ ।
आभ्यामपत्येऽण् स्याद् , यथासङ्ख्यं कनीनत्रिवणी चाऽऽदेशौ । कानीनः, त्रैवणः ॥ ६२ ॥
शुङ्गाभ्यां भारद्वाजे । ६ । १ । ६३ । शुङ्ग-शुङ्गाभ्यां पुंस्त्रीशब्दाभ्यां भारद्वाजेऽपत्येऽण् स्यात् । शौङ्गो भारद्वाजः ॥ ६३ ॥ विकणे-च्छगलादु वात्स्याऽऽत्रये । ६ । १ । ६४ ।
आभ्यां यथासङ्ख्यं वात्स्ये आत्रेये चापत्येऽण स्यात् । वैकर्णो वात्स्या, छागल आत्रेयः॥ ६४ ॥ णश्च विश्रवसो विश्लुक् च वा । ६ । १ । ६५।
विश्रवसोऽपत्येऽण स्यात्, तद्योगे च णः, णयोगे च विशो लुक्च वा । वैश्रवणः, रावणः ॥ ६५ ॥ . सख्या-सं-भद्रात् मातुर्मातुर्च। ६ । १ । ६६ ।
संख्याऽर्थात् सम्भद्राभ्यां च परो यो माता, तदन्तादपत्येऽण स्यात् , मातुश्च मातुर् । द्वैमातुरा, सांमातुरः, भाद्रमातुरः ॥६६॥
अदोनदी-मानुषीनाम्नः। ६।१।६७।। अदुसंज्ञात् नदीनाम्नो मानुषीनाम्नश्वापत्येऽग् १ वासुदेव इति वृष्णेः, श्वाफल्क-नाकुलौ चान्धक-कुरुगोत्रयोरुदाहरणे स्तः ।
२ द्वयोर्मात्रोरपत्यं पुमान् द्वैमातुरः। एवं सम्यग्मातुः, भद्रमातुरपत्यमिति । अणि परे वृद्धिः, णित्वात् । एवं सर्वत्र तद्धिते "वृद्धिः स्वरेष्वादेगिति तद्धिते" (७-४-१) इति सूत्रेग बिति णिति प्रत्यये परे वृद्धिः कार्या ।