SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ [४०८] हेमशब्दानुशासनस्य यत्रि-ञः।६।१। ५४। वृद्धे यो यजिओ तदन्ताद यूनि आयनण् स्यात् । गायिणः दाक्षायणः ।। ५४॥ हरितादेरञः। ६।१।५५ । वृद्धो योऽञ् तदन्तात् हरितादेऍन्यायनम् स्यात्। हारितायन:, कैन्दासायनः ॥ ५५ ॥ क्रोष्ट्र-शलङ्कोलक् च । ६ । १ । ५६। आभ्यां वृद्धे आयनण् स्यात,लुक् चान्तादेशः। कोष्टायनः, शालकायनः ॥ ५६ ॥ दर्भ-कृष्णाऽग्निशर्म-रण-शरदत-शुनकाद्-आग्रायण-ब्राह्मण-वार्षगण्य-वाशिष्ठ-भार्गव वात्स्य । ६ । १। ५७ । - एभ्यो यथासङ्ख्यमेषु वृद्धेष्वायनण् स्यात् दार्भायण आग्रायणश्चेत्, कार्णायनो ब्राह्मणः, आग्निशर्मायणो वार्षगण्यः, राणायनो वाशिष्ठः, शारद्वतायनो भार्गवः, शौनकायनो वात्स्यः ॥ ५७॥ जीवन्त-पर्वताद् वा । ६ । १। ५८ । आभ्यां वृद्ध आयनण् वा स्यात् । जैवन्तायन:, जैवन्तिः । पार्वतायनः पार्वतिः ॥ ५८ ।। का द्रोणाद वा । ६ । १ । ५९ । . द्रोणादपत्यमाने आयनण् वा स्यात् । द्रौणायनः, द्रौणिः ॥ ५९॥ शिवादेरण । ६ । १ । ६०। शिवादेरपत्येऽण स्यात् । शैवा, प्रौष्ठः ॥ ६॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy