________________
स्वोपज्ञलघुवृत्तिः [४०५] ___ अत इन् । ६ । १।३१ । अदन्तात् षष्ठयन्तादपत्ये इञ् स्यात् । दाक्षिः ॥३१॥
बाहादिभ्यो गोत्र । ६ । १ । ३२। स्वापत्यसन्तानस्य स्वव्यपदेशहेतुर्य आयपुरुषस्तदपत्यं गोत्रम् । एभ्यः षष्ठ्यन्तेभ्यो गोत्रेऽर्थे इञ् स्यात् । बोहविः, औपबाहविः॥ ३२ ॥
वर्मणोऽचक्रात् । ६ । १ । ३३ । चक्रवर्जात् परो यो वर्मा तदन्तादपत्येऽर्थे इञ् स्यात्। ऐन्द्रवर्मिः। अचक्रादिति किम् ? चाक्रवर्मणः ॥ ३३ ॥ .
अजादिभ्यो धेनोः। ६ । १ । ३४। । एभ्यः परों यो धेनुः तदन्तादपत्यार्थे इञ् स्यात् । आजधेनविः, बाष्कंधेनविः ॥ ३४ ॥
ब्राह्मणादा । ६ । १ । ३५। ब्राह्मणाद् धेनुस्तदन्तादपत्येऽर्थे इब् वा स्यात् । ब्राह्मणधेनविः, ब्राह्मणधेनवः ॥ ३५ ॥ भूयसू-सम्भूयोऽम्भोऽमितौजसः स्लुक् च ।६।१३६।
एभ्योऽपत्ये इञ् स्यात् , सो लुक् च । भौयिः, साम्भूयिः, आम्भिा, आमितौजिः ॥ ३६ ॥
शालङ्क्यौदि-षाडि-वाइवलि।६।१।३७ ।
एतेऽपत्ये इअन्ता निपात्यन्ते । शालतिः, औदिः, षाडिः, वावलिः ॥ ३७॥
. व्यास-वरुट-सुधातृ-निषाद-बिम्ब-चण्डालाद् ... अन्तस्य चाऽक् । ६।१। ३८।
१ अत्र "अस्वयम्भुवोऽव्' (७-४-७०) सूत्राद। .....