SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ [४०६] हैमशब्दानुशासनस्य एभ्योऽपत्ये इञ् स्यात् , तद्योगे चैषामन्तस्याऽक् । वैयासकि, घाटकिः, सौवातकिः, नैपादकि, बैम्बकिः, चाण्डालकिः ॥ ३८॥ पुनर्भू-पुत्र दुहित-ननान्दुरनन्तरेऽञ् । ६।१।३९॥ एभ्यः षष्ठयन्तेभ्योऽनन्तरेऽपत्येऽञ् स्यात् । पौनर्भवः, पौत्रः, दौहित्रः, नानान्द्रः ॥ ३९॥ परस्त्रियाः परशुश्वाऽसावयें । ६ । ११४० परस्त्रिया अनन्तरेऽपत्येऽञ् स्यात् , तद्योगेऽस्य परशुश्च, न चेदसौ पुंसा सजातीया। पारशवः । असावर्य इति किम् ? पारस्त्रैणेयः ॥ ४० ॥ . विदादेवृद्ध । ६ । १ । ४१ । एभ्यो वृद्धेऽपत्येऽञ् स्यात् । वैदः, और्वः ॥ ४१ ॥ . गर्गादेयञ् । ६ । १ । १२ । ___ एम्यः षष्ठयन्तेभ्यो वृद्धेऽपत्ये यञ् स्यात् । गाग्र्यः। वात्स्यः ॥ ४२ ॥ मधु-भ्रोर्ब्राह्मण-कौशिके । ६ । १ ॥४३॥ आभ्यां यथासङ्ख्यं ब्राह्मणे कौशिके च वृद्धेऽपत्ये यञ् स्यात् । माधव्यो ब्राह्मणः, बाभ्रव्यः कौशिकः ॥४३॥ कपि-बोधाद् आङ्गिरसे । ६।१ । ४४ । . आभ्यामागिरले वृद्धेऽपत्ये या स्यात् । काप्यः, बौध्यः आङ्गिरसः॥४४॥ वतण्डात् । ६ । १ । १५ । अस्मादागिरसे वृद्धे यत्रेव स्यात् । वातण्डया आणि रसः॥ ४५ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy