________________
[४०४] हेमशब्दानुशासनस्य द्विगोरनपत्ये य-स्वराऽऽदेर्लुबदिः । ६ । १ ।२४ । .
अपत्यादन्यस्मिन् प्राग्जितीयेर्थे भूतस्य द्विगोः परस्य यादेः स्वरादेश्च प्रत्ययस्य लुप् स्यात्, न तु द्विः। द्विरथः, पञ्चकपालः । अनपत्य इति किम् ? द्वैमातुरः। अद्विरिति किम् ? पाश्चकपालम् ॥ २४॥. .. प्रागवतः स्त्री-पुंसात् नञ्-स्नञ् ।६।१।२५।
वतोऽर्वागर्थेष्वनिदम्यणपवादे चाभ्यां यथासङ्ख्यं नञ् स्नञ् च स्यात् । स्त्रैणः, पौंस्नः । प्राग्वत इति किम् ? स्त्रीवत् ॥ २५ ॥
त्वे वा । ६ । १. । २६ । स्त्रीपुंसाभ्यां त्वेविषये (?) यथासङ्ख्यं नस्नो वा स्याताम् । स्त्रैणम् , स्त्रीत्वम् । पौंस्नम्, पुंस्त्वम् ॥ २६ ॥ - गोः स्वरे यः । ६।१ । २७ ।
गोः स्वरादितद्धितप्राप्तौ यः स्यात् । गव्यम् । स्वर इति किम् ? गोमयम् ।। २७॥
उसोऽपत्ये । ६ । १।२ । २८ । षष्ठयन्तादपत्येऽर्थे यथाविहितमणादयः स्युः औपगवः, दैत्यः ॥ २८ ॥
आद्यात् । ६ । १ । २९ । अपत्ये यस्तद्धितः स परमप्रकृतेरेव स्यात् । उपगोरपत्यमोपगवः, तस्याप्यौपगविः, औपगवेरप्यौपगवः॥२९॥
वृद्धाद् यूनि । ६।१।३०। यूनि अपत्ये या प्रत्ययः स आधाद् वृद्धाद. यो वृद्धप्रत्ययस्तदन्तात्स्यात्। गार्यस्थापत्यं युवा गायिणः ॥