________________
स्वोपज्ञलघुवृत्तिः
कल्यग्नेरेयम् । ६ । १ । १७ ।
आभ्यां प्राजितीयेऽर्थेऽनिदमि अणपवादे चैय स्यात् । कालेयम्, आग्नेयम् ॥ १७ ॥
[ ४०३]
पृथिव्या आऽञ् । ६ । १ । १८ ।
पृथिव्याः प्राजितीयेऽर्थेऽनिदस्यणपवादे च ञाञौ स्याताम् । पार्थिवा, पार्थिवी ॥ १८ ॥
उत्सादेर । ६ । १ । १९ ।
अस्मात् प्राजितीयेऽर्थेऽनिदम्यणपवादे चाऽञ् स्यात् । औत्सः, औदपानम् ॥ १९ ॥
यादसमासे । ६ । १ । २० ।
असमासवृत्तेर्वष्कयात् प्रागूजितीयेऽर्थेऽनिदम्यणपवादे चाऽञ् स्यात् । वाष्कयः । असमास इति किम् ? सौबष्कयिः ॥ २० ॥
देवाद् यञ् च । ६ । १ । २१ ।
देवात् प्रागूजितीयेऽर्थेऽनिदम्यणपवादे च यत्र - अनौ स्याताम् । वैष्यम्, देवम् ॥ २१ ॥
अः स्थाम्नः । ६ । १ । २२ ।
स्थानः प्राजितीयेऽर्थे अः स्यात् । अश्वत्थामः ॥२२॥ लोम्नोऽपत्येषु । ६ । १ । २३ ॥
लोम्नः प्राग्जिनीयेऽर्थे बहुपत्याऽर्थे अः स्यात् । उडुलोमाः । बहुवचनं किम् ? औडलोमिः ॥ २३ ॥
१ उलोम्नोऽपत्यानि पुमांस इत्युडुलोमा; ।