________________
वापस
स्वोपज्ञलघुवृत्तिः [३९७] गेहानुप्रवेशमास्ते । गेहं गेहमनुप्रपातं गेहानुप्रपातमास्ते गेहमनुप्रपातमनुप्रपातं गेहानुपातमास्ते । गेहं गेहमनुप्रपादं गेहानुप्रपादमास्ते, गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमास्ते। गेहंगेहमवस्कन्दं गेहावस्कन्दमास्ते,गेहमवस्कदमवस्कन्दंगेहावस्कन्दमास्ते। पक्षे गेहं गेहम नुप्रविश्याऽऽस्ते, गेहमनुप्रविश्यानुप्रविश्याऽऽस्ते इत्यादि ।। ८१ ।। कालेन तृष्यस्वः क्रियाऽन्तरे । ५ । ४ । ८२ ।
क्रियाव्यवधायकार्थाभ्यां तृष्यसूभ्यां द्वितीयान्तेन कालार्थेन योगे धातोः सम्बन्धेणम् वा स्यात् । द्वयहं तर्ष द्वयहतर्ष गावः पिबन्ति । द्वन्यहमत्यासं द्वयहात्यासं गावः पिबन्ति । क्रियान्तर इति किम् ? अहरत्यस्येषून् गतः ॥ ८२ ॥
नाम्ना ग्रहाऽऽदिशः । ५। ४ । ८३ । - नामशब्देन द्वितायान्तेन योगे तुल्यककार्थात् ग्रहेरादिशेश्च धातोः सम्बन्धे णम् वा स्यात् । नामानि ग्राहं नामग्राहमाह्वयति, नामान्यादेशं नामाऽऽदेशं दत्ते । पक्षे, नाम गृहीत्वा दत्ते ॥ ८३ ।।
कृगोऽव्ययेनाऽनिष्टोक्तौ क्त्वा-णमौ।५।४।८४ । '' अव्ययेन योगे तुल्यकर्तृकार्थात् कृगोऽनिष्टोक्ती गम्यायां धातोः सम्बन्धे क्त्वाणमौ स्याताम् । ब्राह्मण पुत्रस्ते जातः किं तर्हि वृषल नीचैः कृत्वा, नीचैः कृत्य, नीचैःकारं कथयसि ? उच्चै म प्रियमाख्येयम् । अनिष्टोताविति किम् ? उच्चैः कृत्वाऽऽचष्टे ब्राह्मण पुत्रस्ते जात इति । अव्ययेनेति किम् ? ब्राह्यण पुत्रस्ते जातः किं तर्हि वृषल मन्दं कृत्वा कथयसि ?॥ ८४ ॥