________________
[३९६] हैमशब्दानुशासनस्य
पञ्चम्या त्वरायाम् । ५।४।७७। त्वरायां गम्यायां पञ्चम्यन्तेन योगे तुल्यकर्तृकार्थाद्वातोः सम्बन्धे णम् वा स्यात्। शय्याया उत्थायं शय्योस्थाय धावति । पक्षे, शय्याया उत्थाय धावति । त्वराया. मिति किम् ? आसनादुत्थाय याति ॥ ७७ ॥ .
द्वितीयया। ५।४।७८। द्वितीयान्तेन योगे त्वरायां गम्यायां तुल्यकर्तृकार्थाद् धातोः सम्बन्धे णम्वा स्यात् । लोष्टान् ग्राहं लोष्टग्राहम्, लोष्टान् गृहीत्वा युध्यन्ते ।। ७८॥
स्वाङ्गेनाऽध्रुवेण ।५। ४ । ७९। यस्मिन्नङ्गेच्छिन्ने भिन्ने वा प्राणी न म्रियते तदध्रुवं । तेन स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद् धातोः सम्बन्धे णम् वा स्यात् । भ्रुवौ विक्षेपं भ्रूविक्षेपम् , भ्रुवो. विक्षप्य वा जल्पति । स्वाङ्गेनेति किम् ? कफमुन्मूल्य जल्पति । अध्रुवेणेति किम् ? शिर उत्क्षिप्य वक्ति ॥७९॥
परिक्लेश्यन । ५। ४ । ८० । परिक्लेश्येन स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद धातोः सम्बन्धे णम् वा स्यात् । उरांसि प्रतिपेषं उरःप्रतिपेयम्, उरांसि प्रतिपेष्य वा युध्धन्ते ।।८०॥ विश-पत-पद-स्कन्दो वीप्साऽऽभीक्ष्ण्ये । ५।३।८१।
द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद् विशादेवीप्साऽऽभीक्ष्ण्ययोर्गम्ययोर्धातोः सम्बन्धे णम् वा स्यात्। गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते, गेहमनुप्रवेशमनुप्रवेशं
“विद्-दृग्भ्यः..." सूत्रात् णमोऽनुवृत्तिः। स णम्प्रत्ययः पूर्वकाले वीप्सायां पौनःपुन्ये च गम्ये भवति । णमन्ते च पदे यत्र "...तस्यैव” (५-४-६०) इत्यस्यानुवृत्तिस्तत्र यथाविधि तस्यैव धातोरनुप्रयोगः कार्यः. यथा शुष्कपेषं पिनष्टि, काकनाशं नष्ट इति, नान्यत्र ।