________________
___ स्वोपज्ञलघुवृत्तिः [३९५] . दंशेस्तृतीयया । ५ । ४ । ७३ ।
तृतीयान्तेन योगे तुल्यकर्तृकार्थादुपपूर्वाद् दंशेर्धातोः सम्बन्धे णम् वा स्यात्। मूलकेनोपदंशं मूलकोपदंशम् , मूलकेनोपदश्य भुङ्क्ते ॥ ७३ ॥
हिंसाऽर्थाद् एकाऽऽप्यात् । ५ । ४ । ७४। हिंसार्थाद्धातोर्धात्वन्तरेणैकाऽऽप्यात् तुल्यकर्तृकार्थात् तृतीयान्तेन योगे णम् वा स्यात् । दण्डेनोपघातं दण्डोपघातम् , दण्डेनोपहत्य च गाः सादयति । एकाप्यादिति किम् ? दण्डेनोपहत्य चौरं गोपालको गाः खेटयति ॥७४॥ उपपीड-रुध-कर्षः तत्सप्तम्या । ५।४ । ७५।
तया तृतीयया युक्ता सप्तमी तत्सप्तमी । तदन्तेन योगे उपपूर्वेभ्य एभ्यः तुल्यकर्तृकार्थेभ्यो धातोः सम्बन्धे णम् वा स्यात् । पार्धाभ्यामुपपीडं पाश्वोपपीडं शेते, पाचपोरुपपीडं पार्थोपपीडं शेते। व्रजेनोपरोधं व्रजोपरो. धम् , बजे उपरोधं व्रजोपरोधं गाः स्थापयति । पाणिनोपकर्ष पाण्युपकर्षम्, पाणावुपकर्ष पाण्युपकर्ष गृह्णाति ॥ ७५ ॥ - प्रमाण-समासत्त्योः । ५। ४ । ७६।।
आयाममानं प्रमाणम् । समासत्तिः संरम्भपूर्वकः सन्निकर्षः। तयोर्गम्ययोस्तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यकर्तृकार्थाद् धातोः संबन्धे णम् वा स्यात्। ब्यङ्गुलेनोत्कर्ष द्वयङ्गुलोत्कर्षम्, व्यङ्गुले उत्कर्ष बङ्गुलोत्कर्ष गण्डिकाश्छि. नत्ति, केशैहिं कैशग्राहं, केशेषु ग्राहं केशग्राहं युध्यन्ते । पक्षे, द्वयङ्गुलेनोत्कृष्य गण्डिकाश्छिनत्ति ॥ ७६ ॥