SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य बर्नाम्नि | ५ | ४ | ६७ । बन्धः प्रकृतिर्नाम विशेषणं च । बन्धेर्बन्धनस्य यन्नाम संज्ञा, तद्विषयात् करणार्थात् पराद् बन्धेस्तस्यैव सम्बन्धे णम् वा स्यात् । क्रौञ्श्चबन्धम्बद्धः ॥ ६७ ॥ [ ३९४ ] आधारात् । ५ । ४ । ६८ । आधारर्थात् पराद् बन्धेस्तस्यैव सम्बन्धे णम् वा स्यात् । चारकबन्धम्बद्धः ॥ ६८ ॥ कर्तुर्जीव -पुरुषात् नश्-वहः । ५ । ४ । ६९ । आभ्यां कर्तृभ्यां पराद् यथासङ्ख्यं नशेर्वहेव तस्यैव सम्बन्धे णम् वा स्यात् । जीवनाशं नश्यति, पुरुषवाहं वहति । कर्तुरिति किम् ? जीवेन नश्यति ॥ ६९ ॥ उर्ध्वात् पूर्-शुषः । ५ । ४ । ७० ॥ कर्तुरूर्ध्वात् परात् पूरः शुपच तस्यैव संबन्धे णम् वा स्यात् । ऊर्ध्वपूरं पूर्यते, ऊर्ध्वशोषं शुष्यतिं ॥ ७० ॥ व्याप्याच्चेवात्' । । ५ । ४ । ७१ । व्याप्यात् कर्तुम्श्वोपमानात् पराद्धातोस्तस्यैव सम्बन्धे णम् वा स्यात् । सुवर्णनिधायं निहितः, काकनाशं नष्टः ॥ ७१ ॥ उपात किरो लवने | ५ | ४ । ७२ । उपपूर्वात् किरतेलवनार्थस्य धातोः सम्बन्धे णम् बा स्यात् । उपस्कारं मद्रका लुनन्ति । लवन इति किम् ? उपकीर्य याति ॥ ७२ ॥ १ इवार्थादुपमानात् परातू सुवर्णमित्र निहितः । काकवन्नष्ट इति भावः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy