SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [३९३] कृग्-ग्रहोऽकृत-जावात् ।५।४।६१। आभ्यां व्याप्याभ्यां पराद् यथासङ्ख्यं कृगो ग्रहेश्व तस्यैव सम्बन्धे णम् वा स्यात् । अकृनकारं करोति, जीवग्राहं गृह्णाति ॥ ६१ ॥ निमूलात् कषः । ५।४ । ६२ । निमूला व्याप्यात् परात् कषेस्तस्यैव सम्बन्धे णम् वा स्यात् । निमूल काषं काति, निमूलस्य कार्य कषति ॥६२॥ हनश्च समूलात् । ५। ४ । ६३ । समूला व्याप्यात् परात् हन्तेः कषेश्च तस्यैव सम्बन्धे णम्बा स्यात् । समूलघातं हन्ति, समूलकाषं कषति॥६३॥ करणेभ्यः । ५। ४ । ६४ । करणार्थात् पराद् हन्तेस्तस्यैव सम्बन्धे णम् वा स्यात् । पाणिघातं कुड्यमाहन्ति ॥ ६४ ॥ स्व-स्नेहनार्थात् पुष-पिषः। ५। ४६५) स्वशब्दार्थात् स्नेहनार्थीच करणार्थात् पराद् यथासङ्ख्यं पुषः पिषश्च तस्यैव सम्बन्धे णम् वा स्यात् । स्व. पोषं पुष्णाति, एवमात्मपोषम् , उदपेषं पिनष्टि, एवं क्षीरपेषम् ॥ ६५॥ हस्तार्थाद ग्रह-वर्ति-वृतः । ५।४।६६। हस्तार्थात् करणवाचिनः परेभ्य एभ्यस्तस्यैव सम्बन्धे णम् वा स्यात् । हस्तग्राहं गृह्णाति, एवं करग्राहम् , हस्तवः वर्तयति, पाणिवतं वर्तते ॥ ६६ ॥ १ 'वर्ति' इति ण्यन्तः, 'वृत्' इति अण्यन्तो वृत्धातुर्बोध्यः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy