________________
ब्दानुशासनस्य
A
(३९२] हेमशब्दानुशासनस्य
यावतो विन्द-जीवः । ५।४। ५५ । कात्यवतो व्याच्या यावतः पराभ्यां तुल्यकर्तृकाम्यां विन्दतिजीविभ्यां धातोः सम्बन्धे णम् वा स्यात् । यावद्वेदं भुङ्क्ते, यावज्जीवमधीते ॥ ५५ ॥
चर्मोदरात् पूरेः। ५। ४ । ५६ । आभ्यां व्याप्याभ्यां परात् तुल्यकर्तृकार्थात् पूरयते. धातोः सम्बन्धे णम् वा स्यात् । चर्मपूरमास्ते, उदरपूरं शेते ॥ ५६ ॥
वृष्टिमोने ऊलुक् चास्य वा । ५। १।५७। व्याप्यात् परात् पूरयतेर्धातोः सम्बन्धे णम् वा स्यात् , पूरयतेस्तेलुक् च वा, समुदायेन चेद् वृष्टीयत्ता गम्यते। गोष्पदप्रम्, गोष्पदपूरं वृष्टो मेघः ।। ५७ ॥ . चेलार्थात् क्नोपेः ।५।४। ५८।।
चेलार्थाद् व्याप्यात् परात् क्रोपपयतेस्तुल्यकर्तृकार्थाद् वृष्टिमाने गम्ये धातोः सम्बन्धे णम् वा स्यात् । चेलनोपं वृष्टो मेघः ॥ ५८॥
गात्र-पुरुषात् स्नः। ५। ४ । ५९ । - आभ्यां व्याप्याभ्यां परात तुल्यकर्तृकार्थात्स्नातेवृष्टिमाने गम्ये धातोः सम्बन्धे णम् वा स्यात् । गात्रस्नायं वृष्टः, पुरुषस्नायं वृष्टः ॥ ५९॥
शुष्क-चूर्ण-रूक्षात् पिषस्तस्यैव ।५।४।६०। एभ्यो व्याप्येभ्यः परात् पिपेर्णम् वास्यात् , तस्यैव धातोः सम्बन्धे । शुष्कपेषं पिनष्टि, एवं चूर्णपेषम् , रूक्षपेपम्
१ पूरयतेधातोः । यावता जलेन गोष्पदं पूर्यते तावद् बष्टो मेघ इत्यर्थः ।