________________
स्वोपज्ञलघुवृत्तिः [३९१] सम्बन्धे रुणम् वास्यात् । अन्यथाकारम्, एवङ्कारम्, कथङ्कारम्, इत्थङ्कारं भुक्ते । पक्षे, अन्यथा कृत्वा । अनर्थकादिति किम् ? अन्यथा कृत्वा शिरो भुङ्क्ते ॥ ५० ॥
यथा-तथाद् ईर्योत्तरे। ५। ४ । ५१। आभ्यां तुल्यकर्तृकार्थादनर्थकात् कृगोधातोः सम्बन्धे रुणम् वा स्यात् , ईय॑श्चेदुत्तरयति । कथं त्वं भोक्ष्यसे ? इति पृष्टोऽसूयया तं प्रत्याह-यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये किं तवानेन ?। ईर्योत्तर इति किम् ? यथाकृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि ॥५१॥
शापे व्याप्यात् । ५। ४ । ५२ । कर्मणः परात् तुस्यकर्तृकार्थात् कृगो धातोः सम्बन्ध रुणम् वा स्यात् , आक्रोशे गम्ये । चोरङ्कारमाक्रोशति शाप इति किम् ? चोरं कृत्वा हेतुभिः कथयति ॥५२॥
स्वादर्थाद अदीर्घात् । ५। ४ । ५३। __स्वार्थाददीर्घान्ताद् व्याप्यात् परात् तुल्यकर्तृकार्थात् कृगो धातोः सम्बन्धे ख्णम् वा स्यात् । स्वादुङ्कारं भुङ्क्ते, मिष्टङ्कारं भुङ्क्ते । पक्षे, खादं कृत्वा । अदीर्घादिति किम् ? स्वाद्वी कृत्वा यवागू भुङ्क्ते ॥ ५३ ॥
विद्-दृग्भ्यः कात्स्न्ये णम् । ५। ४ । ५४ । कात्स्य॑वतोव्याप्यात् परेभ्यस्तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानेभ्यो विदिभ्यो दृशश्च धातोः सम्बन्धे णम् वा स्यात् । अतिथिवेदं भोजयति, कन्यादर्श वरयति । कायं इति किन ? अतिथिं विदित्वा भोजयति ॥ ५४॥
१ बहुवचनाद् विद्यतिवर्जाः सर्वेऽपि विदो धातवो ग्राह्याः ।