________________
[३९०] हैमशब्दानुशासनस्य निमील्याऽदि-मेङस्तुल्यकर्तृके । ५ । ४ । ४६।
तुल्यो धात्वर्थान्तरेण कर्ता यस्य तवृत्तिभ्यो निमील्यादिभ्यः, मेडश्च धातोः सम्बन्धे क्त्वा वा स्यात् । अक्षिणी निमील्य हसति, मुखं व्यादाय स्वपिति, अपमित्य याचते । पक्षे, अपमातुं याचते । तुल्यकर्तृक इति किम् ? चैत्रस्याक्षिनिमीलने मैत्रो हसति ॥ ४६ ॥
प्राक्काले । ५। ४ । ४७। परकालेन धात्वर्थेन तुल्यकर्तृके प्राकालेऽर्थे वर्तमानाद् धातोः सम्बन्धे त्तवा वा स्यात् । आसित्वा भुक्ते, आ. स्यते भोक्तुम् । प्राकाल इति किम् ? भुज्यते, पीयते वा ॥४७॥
ख्णम् चाऽऽभीषण्ये । ५ । ४ । ४८ । ... आभीक्ष्ण्ये परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद्धातोः सम्बन्धे रुणम् , क्त्वा च स्यात् । भोज भोज याति, भुत्त्वा भुक्त्वा याति ॥ ४८॥ ,
पूर्वाऽग्रे-प्रथमे । ५। ४ । ४९। एखूपपदेषु परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद्धातोः सम्बन्धे रुणम् वा स्यात् । पूर्व भोज याति, पूर्व भुक्त्वा याति । एवमग्रे भोजम् , अग्रे भुक्त्वा । प्रथम भोजम् , प्रथमं भुक्त्वा । पूर्व भुज्यते ततो याति ॥४९॥
'अन्यथैवं कथमित्थमः कृगोऽनर्थ कात्
एभ्यः परात् तुल्यकर्तृकार्थात् कृगोऽनर्थकाद् धातोः
१ अन्यथाकारमित्यत्र कृगोऽर्थो नास्ति, किन्त्वन्यथेत्येवार्थः । एवमन्यत्राऽपि एवंकारादिषु।