SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ __.. स्वोपज्ञलघुवृत्तिः [३८९] · प्रचये नवा सामान्यार्थस्य । ५ । ४ । ४३ । __ धात्वर्थानां समुच्चये गम्ये सामान्यार्थस्य धातोः सम्बन्धे सति धातोः परौ हिस्वी तध्वमौ च तद्युष्मदि वा स्याताम् । व्रीहीन वप लुनीहि पुनीहि इत्येवं यतते, यत्यते वा । पक्षे, बीहीन वपति लुनाति पुनाति इत्येवं यतते, यत्यते वा, सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवमधीते, पठ्यते वा। पक्षे, सूत्रमधीते नियुक्ति मधीते भाष्यमधीते इत्येवमधीते, पठयते वा, व्रीहीन वपत लुनीत पुनीतेत्येवं यतध्वे, व्रीहीन वप लुनीहि पुनीहीत्येवं चेष्टध्वे । पक्षे, व्रीहीन वपथ लुनीथ पुनीथेत्येवं यतध्वे, सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीध्वमित्येवमधीध्वे, सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवमधीध्वे । पक्षे, सूत्रमधीध्वे नियुक्तिमधीध्वे भाष्यमधीध्वे इत्येवमधीध्वे । सामान्यार्थस्येति किम् ? व्रीहीन वप लुनीहि पुनीहि इत्येवं बपति लुनाति पुनातीति मा भूत् ।। ४३ ॥ निषेधेऽलं-खल्वोः क्त्वा । ५ । ४।४४। - निषेधार्थयोरलंखल्वोरुपपदयोर्धातोः क्त्वा वा स्यात्। अलंकृत्वा, खलुकृत्वा । पक्षे, अलं रुदितेन ॥ ४४ ॥ परावरे । ५।४ । १५ । परे अवरे च गम्ये क्त्वा वा स्यात्। अतिक्रम्य नदी गिरिः, अप्राप्य नदी गिरिः । नद्यतिक्रमणे गिरिः, नद्यमाप्त्या गिरिः॥४५॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy