________________
[३८८] हैमशब्दानुशासनस्य
सस्मे ह्यस्तनी च । ५।४।१०। स्मयुक्ते माङ्युपपदे ह्यस्तन्यद्यतनी चस्यात् । मा स्म करोत् , मा स्म कार्षीत् ॥ ४० ॥
धातोः सम्बन्धे प्रत्ययाः। ५। ४ । ४१ । . धात्वर्थानां संबन्धेविशेषणविशेष्यभावे सतिअयथाकालमपि प्रत्ययाः साधवः स्युः । विश्वदृश्वाऽस्य पुत्रो भविता, भावि कृत्यमासीत् , गोमानासीत् ॥४१॥ भृशाऽऽभीक्ष्ण्ये हि-स्वा यथाविधि त-ध्वमौ च
ताष्मदि। ५। ४ । ४२ । मृशाऽऽभीषण्ये सर्वकालेऽर्थे वर्तमानाद् धातोः सर्वविभक्तिवचनविषये हिस्वौ स्याताम् , यथाविधि धातोः संबन्धे, यत एव धातोर्यस्मिन्नेव कारके हिस्वौ तस्यैव धातोस्तस्कारकविशिष्टस्यैव सम्बन्धे अनुप्रयोगे सति, तथा पञ्चम्याएव तध्वमौ , तयोः सम्बन्धिनि बहुत्वविशिष्टे युष्मद्यर्थे हिस्वौ च स्यातां यथाविधि धातोः सम्बन्धे । लुनीहि लुनीहीत्येवायं लुनातीत्यादि, अधीष्वाधीष्वेत्ये. काममधीते इत्यादि, लुनीत लुनीतेत्येवं यूयं लुनीथ, लुनीहि लुनीहीत्येवं यूयं लुनीथ, अधीध्वमधीध्वमित्येवं यूयमधीध्वे, अधीष्वाधीष्वेत्येवं यूयमधीध्वे । यथाविधीति किम् ? लुनीही लुनीहीत्येवायं लुनाति, छिनत्ति, लूयते वेति धातोः संबन्धे मा भूत् ।। ४२ ॥
, “अष्ट धातोरादि..." इत्यत्र 'अमाअ, इत्युक्तत्वात् माङि नाट् स्यात् । १ अत्र विश्वचा आसीत् इत्यत्र भूतकालः, भविता भावीति म भविष्यत् ।