________________
स्वोपज्ञलघुवृत्तिः [३८७] . काल-वेला-समये तुम्वाऽवसरे । ५। ४ । ३३ ।
एषूपपदेष्ववसरे गम्ये धातोस्तुम् वा स्यात् । कालो भोक्तुम् , वेला भोक्तुम्, समयो भोक्तुम् । पक्षे, कालो भोक्तव्यस्य । अवसर इति किम् ? कालः पर्चात भूतानि ॥ ३३॥
सप्तमी यदि । ५। ४ । ३४ । यच्छब्दप्रयोगे कालादिषूपपदेषु सप्तमी स्यात् । कालो यदधीयीत भवान, वेला यद् भुजीत, समयो यत् शयीत ॥
शक्तार्हे कृत्याश्च । ५। ४ । ३५। - शक्तेऽ] च कर्तरि गम्ये कृत्याः सप्तमी च स्युः। भवता खलु भारो वाह्यः, उद्येत, भवान् भारं वहेत्, भवान् हि शक्तः, भवता खलु कन्या वोढव्या, उद्येत, भवान् खलु कन्यां वहेत् , भवानेतदर्हति ॥ ३५ ॥
णिन् चाऽऽवश्यकाऽधमये । ५।४।३६।
अनयोर्गम्ययोः कर्तरि वाच्ये णिन् कृत्याश्च स्युः, अवश्यंकारी, अवश्यंहारी, अवश्यं गेयो गीतस्य, शतं दायी, गेयो गाथानाम् ॥३६ ॥
_ अर्हे तृच । ५। ४ । ३७। • अहे कर्तरि वाच्ये तृञ् स्यात् । भवान् कन्याया वोढा ॥३७॥
आशिष्याशी-पञ्चम्यौ । ५।४ । ३८ । आशीविशिष्टार्थादाशीःपञ्चम्यौ स्याताम् । जीयात् , जयतात् । आशिषीति किम् ? चिरं जीवति मैत्रः ॥३८॥
मायद्यतनी । ५। ४ । ३९ । माडि उपपदेऽद्यतनी स्यात् । मा कार्षीत् ॥३९ ।।