________________
[३८६] हेमशब्दानुशासनस्य करोतु। यत्र प्रेरणायामेव प्रत्याख्याने कामचारस्तदामन्त्रणम् । इहासीत, आस्ताम् । प्रेरणैव सत्कारपूर्विका अधीष्टम्। व्रतं रक्षेत्, रक्षतु। संप्रश्नः संप्रधारणा। किं नु खलु भो! व्याकरणमधीपीय, अध्ययै, उत सिद्धान्तमधीयीय, अध्ययै १। प्रार्थनं याचा । प्रार्थना मे तर्कमधीयीय, अध्ययै ॥२८॥ प्रैषाऽनुज्ञाऽवसरे कृत्य-पञ्चम्यौ । ५। ४ । २९ ।
प्रैषादिविशिष्टे कर्नादावर्थे कृत्याः पञ्चमी च स्युः । न्यत्कारपूर्विका प्रेरणा प्रैषः। भवता खलु कटः कार्यः, भवान् कटं करोतु, भवान् हि.प्रेषितः अनुज्ञातः, भवतोऽवसरः कटकरणे ॥ २९॥. .
सप्तमी चोर्ध्वमौहर्तिके । ५। ४ । ३० । प्रैषादिषु गम्येषु ऊर्ध्वमौहर्तिकेऽर्थे वर्तमानात् सप्तमी, कृत्यपञ्चम्यौ च स्युः। ऊर्ध्व मुहूर्तात् कटं कुर्यात् भवान् , भवता कटः कार्यः, कटं करोतु भवान् , भवान् हि प्रेषितोऽनुज्ञातः, भवतोऽवसरः कटकरणे ॥३०॥
स्मे पञ्चमी । ५। ४ । ३१ । स्मे उपपदे प्रैषादिषु गम्येषु ऊर्ध्वमौहूर्तिकार्थाद् धातोः पञ्चमी स्यात्।ऊर्व मुहूर्ताद् भवान् कटं करोतु स्म, भवान् हि प्रेषितोऽनुज्ञातः, भवतोऽवसरः कटकरणे ॥ ३१॥
अधीष्टौ । ५। ४ । ३२ । स्मे उपपदेऽध्येषणायां गम्यायां पञ्चमी स्यात् । अङ्ग ! स्म विद्वन् ! अणुव्रतानि रक्ष ॥ ३२ ॥
१ अहिंसासत्यादिनामानि जैनश्रावकाणां देशतः पालनीयानि पञ्च. प्रतानि ।