SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ स्वोपडलघुतिः [३८५] सतीच्छाऽर्थात् । ५ । ४ । २४ । सदादिच्छार्थात् सप्तमी वा स्यात् । इच्छेत् , इच्छति ॥ २४ ॥ वर्त्यति हेतु-फले । ५। ४ । २५ । हेतुभूते फलभूते च वत्स्य॑त्यर्थे वर्तमानात् सप्तमी वा स्यात् । यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् , यदि गुस्नुपासिष्यते शास्त्रान्तं सङ्गमिष्यते । वय॑तीति किम् ? दक्षिणेन चेद् याति न शकटं पर्याभवति ॥ २५ ॥ कामोक्तावकचिति । ५। ४ । २६। इच्छाप्रवेदनगम्ये सप्तमी स्यात् , न तुकश्चित्प्रयोग। कामो मे भुञ्जीत भवान् । अकचितीति किम् ? कश्चित् जीवति मे माता ? ॥ २६ ॥ इच्छाऽर्थे सप्तमी-पञ्चम्या । ५।४।२७) इच्छाऽर्थे धातावुपपदे कामोक्तो गम्यायां सप्तमी पञ्चम्यौ स्याताम् । इच्छामि भुञ्जीत, भुतां वा भवान् ॥२७॥ विधि-निमन्त्रणाऽऽमन्त्रणाऽधीष्ट-सम्प्रश्न प्रार्थने । ५। ४ । २८ । विध्यादिविशिष्टेषु कतृकर्मभावेषु प्रत्ययार्थेषु सप्तमीपञ्चम्यो स्याताम् । विधिः क्रियायां प्रेरणा । कर कुर्यात् , करोतु भवान्। प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तनिमन्त्रणम् । द्विसन्ध्यमावश्यकं कुर्यात् , अवश्यं कर्तुमर्हमावश्यकम् , साम्प्रतं तु योगरूढितः प्रतिक्रमणशब्द प्रसिद्धं श्रावकसाधूनां सन्ध्येत्यर्थः। तच्च सामायिकादिमेदैः षोढा । विशेषस्तु आवश्यकवृत्तौ विशेषावश्यकभाष्यादौ च द्रष्टव्यः।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy