________________
[३८४] हैमशब्दानुशासनस्य . चित्रे। ५। ४ । १९ ।
आश्चर्ये गम्ये यच्चयत्रयोरुपपदयोः सप्तमी स्यात् । चित्रमाश्चर्य यच यत्र वा तत्रभवान् अकल्प्यं सेवेत ॥१९॥
शेषे भविष्यन्ती, अयदौ ।५।४।२०। यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रे गम्ये भविष्यन्ती स्यात् , न तु यदिशब्दे । चित्रमाश्चर्यमन्धो नाम गिरिमारोक्ष्यति । शेष इति किम् ? यच्चयत्रयोः पूर्वेण सप्तम्येव । अयदाविति किम् ? चित्रं यदि स भुञ्जीत ॥ २० ॥
सप्तम्युताऽप्योर्बाढे । ५। ४ । २१ । __ बाढार्थयोरुताप्योरुपपदयोः सप्तमी स्यात्। उत अपि वा कुर्यात् । बाढे इति किम् ? उत दण्डः पतिष्यति, अपि धास्यति द्वारम् ॥ २१॥ -
सम्भावनेऽलमर्थे तदर्थानुक्तौ । ५।४।२२। अलमोऽर्थे शक्तौ यत् सम्भावनं, तस्मिन् गम्येऽलमर्थार्थस्याऽप्रयोगे सप्तमी स्यात् । अपि मासमुपवसेत् । अलमर्थ इति किम् ? निदेशस्थायी मे चैत्रः प्रायेण यास्यति । तदर्थानुक्ताविति किम् ? शक्तश्चत्रो धर्म करिष्यति ॥२२॥ ___ अयदि श्रद्धाधातौ नवा । ५। ४ । २३ ।
संभावनाऽर्थे धातावुपपदेऽलमर्थविषये संभावने गम्ये सप्तमी वा स्यात्, न तु यच्छन्दे । श्रद्दधे, संभावयामि भुञ्जीत भवान् । पक्षे, भोक्ष्यते, अभुङ्क्त, अभुक्त वा। अयदीति किम् ? सम्भावयामि यद् भुञ्जीत भवान् । श्रद्धाधाताविति किम् १ अपि शिरसा पर्वतं भिन्द्यात् ॥ २३ ॥