SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [३८३] नाम, कतरो नाम, कतमो नाम यस्मै सत्रभवान् अनृतं ब्रूयाद्, वक्ष्यति वा ? ॥ १४ ॥ अश्रद्धाऽमर्षेऽन्यत्रापि । ५। ४ । १५ । अकिंवृत्ते किंवृत्ते चोपपदे अश्रद्धाऽमर्षयोर्गम्ययोः सप्तमीभविष्यन्त्यो स्याताम् । न श्रद्दधे, न सम्भावयामि तत्रभवान् नामाऽदत्तं गृह्णीयात् , ग्रहीष्यति वा, न श्रद्दधे किं तत्रभवान् अदत्तमाददीत, आदास्यते वा ?, न मर्षयामि, नक्षमे तत्रभवान् नामादत्तं गृह्णीयात् , ग्रहीष्यति वा॥१५॥ किंकिलाऽस्त्यर्थयोर्भविष्यन्ती । ५ । ४ । १६ । किंकिलेऽस्त्यर्थे चोपापदेऽश्रद्धाऽमर्षयोर्गम्ययोभविष्यन्ती स्यात् । न श्रद्दधे, न मर्षयामि किंकिल नाम तत्रभवान् परदारानुपकरिष्यते, न श्रद्दधे, न मर्षयामि अस्ति नाम भवति, नाम तत्रभवान् परदारानुपकरिष्यते ॥ १६ ॥ जातु-यद्-यदा-यदौ सप्तमी। ५। ४ । १७ । ___ एखूपपदेवश्रद्धामर्षयोः सप्तमी स्यात् । न श्रहधे, न क्षमे जातु तत्रभवान सुरां पिवेत् , एवं यत् , यदा, यदि सुरां पिबेत् ॥ १७ ॥ क्षेपे च यच्च-यो। ५ । ४ । १८ । यञ्चयत्रयोरुपपदयोः क्षेपेऽश्रद्धामर्षयोच गम्ययो सप्तमी स्यात् । धिग् गर्हामहे यच्च यत्र वा तत्रभवानस्मान आक्रोशेत्, न श्रधे, न क्षमे यच्च यत्र वा तत्रभवान् परिवादं कथयेत् ॥ १८ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy