________________
-
-
-
[३८१] हेमशब्दानुशासनस्य
वोतात् प्राक् । ५।४ । ११ । .. "सप्तम्युताऽप्योर्बाढे" (५-४-२१) इत्यत्र यदुतशब्दसंकीर्तनं ततःप्राक् सप्तम्यर्थे क्रियातिपत्तो भूतार्थाद्धातोर्वा क्रियाऽतिपत्तिः स्यात् । कथं नाम संयतः सन्ननागाढे तत्रभवान् आधायकृतमसेविष्यत, धिग् गर्हामहे । पक्षे, कथं सेवेत ? कथं सेवते ? धिग् गर्हामहे । उतात प्रागिति किम् ? कालो यदभोक्ष्यत भवान् ॥ ११ ॥
क्षेपेऽपि-जावोर्वर्तमाना । ५। ४ । १२। क्षेपे गम्येऽपिजात्वोरुपपदयोर्धातोर्वर्तमाना स्यात् । अपि तत्रभवान् जन्तून् हिनस्ति ? जातु तत्रभवान् भू- . तानि हिनस्ति ? धिग् गर्हामहे ॥ १२ ॥
कथमि सप्तमी च वा। ५।४ । १३ । - कथं शब्दे उपपदे क्षेपे गम्ये धातोः सप्तमी वर्तमाना च वा स्यात् । कथं नाम तत्र भवान् मांस भक्षयेत्? भक्ष. यति वा?, गर्हामहे अन्याय्यमेतत् । पक्षे, अबभक्षत्, अभक्षयत्, भक्षयाञ्चकार, भक्षयिता, भक्षयिष्यति । अत्र सप्तमी निमित्तमस्तीति भूते क्रियाऽतिपतने वा क्रियाsतिपत्तिः । कथं नाम तत्रभवान् मांसमभक्षयिष्यत् ।। पक्षे, यथाप्राप्तम् । भविष्यति तु क्रियातिपतने नित्यमेव सा । कथं नाम तत्रभवान् मांसमभक्षयिष्यत् ॥ १३ ॥ किंवृत्ते सप्तमी-भविष्यन्त्यौ । ५ । ४ । १४ ।
किंवृत्ते उपपदे क्षेपे गम्ये धातोः सप्तमीभविष्यन्त्यौ स्याताम् । किं तत्रभवाननृतं ब्रूयाद्, वक्ष्यति वा ?, को
, अत्रभवत् तत्रभवच्छन्दौ पूज्यवाचको स्तः । भवच्छब्दवदनयोरूपविधिः, अन्यस्मिन्नर्थकं तिवादिप्रत्ययत्रयं च भवति । अपिः प्रश्नेऽत्र ।