SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ ___ स्वौपज्ञलघुवृत्तिः [३८१] : कालस्याऽनहोरात्राणाम् । ५।४।७। कालस्य योऽवधिःतद्वाचिन्युपपदे कालस्यैवार्वाग्भागे यएष्यन्नर्थस्तवृत्तेर्धातोरनद्यतनविहितः प्रत्ययो न स्यात्, न चेत् सोर्वाग्भागोऽहोरात्राणाम् । योऽयमागामी संवत्सरः, तस्य यदवरमाग्रहायण्यास्तत्र जिनपूजां करिष्यामः। अनहोरात्राणामिति किम् ? योऽयं मास आगामी, तस्य योऽवरः पश्चदशरात्रस्तत्र युक्ताद् द्विरध्येतास्महे ॥७॥ परे वा । ५।४।८। कालस्य योऽवधिस्तद्वाचिन्युपपदे, कालस्यैव परेभागेऽनहोरात्रसम्बन्धिनि य एष्यन्नर्थस्तवृत्तेर्धातोरनद्यतनविहितः प्रत्ययो वा न स्यात् । आगामिनो वत्सरस्याऽऽग्रहायण्याः परस्ताद् द्विः सूत्रमध्येष्यामहे, अध्येतास्महे वा ॥८॥ सप्तम्यर्थे क्रियातिपत्तौ क्रियाति-पत्तिः पर १ सप्तम्या अर्थो निमित्तं हेतुफलकथनादिसामग्री कुतश्विद् वैगुण्यात् क्रियाया अनभिनिवृत्तौ क्रियातिपत्तो सत्यामेष्यदर्थाद् धातोः सप्तम्यर्थे क्रियाऽतिपत्तिः स्यात् । दक्षिणेन चेद् अयास्यत् न शकटं पर्या भविष्यत् ॥९॥ भृते । ५। ४ । १०। भूतार्थाद्धातोःक्रियाऽतिपत्तौ सत्यां सप्तम्यर्थे क्रियाऽतिपत्तिः स्यात्। दृष्टो मया तव पुत्रोऽन्नार्थी चक्रम्यमाणः, अपरश्चातिथ्यर्थी, यदि स तेन दृष्टोऽभविष्यदुताभोक्ष्यत, अप्यभोक्ष्यत ॥ १०॥ ..
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy