________________
-
[३८०] हैमशब्दानुशासनस्य आगमिष्यति, आगन्ता वा आशंसे संभावये युक्तोऽधीयीय ॥३॥
सम्भावने सिद्धवत् । ५। ४।४। हेतोः शक्तिश्रद्धानं सम्भावनम् , तस्मिन् विषयेऽसिद्धेऽपि वस्तुनि सिद्धवत् प्रत्ययाः स्युः।समये चेत्प्रयनोऽभूद् उदभूवन विभूतयः ॥ ४ ॥ 'नाऽनद्यतनः प्रबन्धाऽऽसत्त्योः । ५। ४ । ५ ।
धात्वर्थस्य प्रबन्धे आसत्तौ च गम्यायां धातोरनद्यतनविहितः प्रत्ययो न स्यात् । यावज्जीवं भृशमन्नमदात् , दास्यति वा, येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावर्तिष्ट, येयं पौर्णमास्यागामिन्येतस्यां जिनमहः प्रवतिष्यते ॥५॥ - एष्यत्यवधौ देशस्याग्भिागे। ५। ४ । ६ ।
देशस्य योऽवधिस्तद्वाचिन्युपपदे देशस्यैवार्वाग्भागे य एष्यन्नर्थः तद्वृत्तातोरनद्यतनविहितः प्रत्ययो न स्यात् । योऽयमध्वा गन्तव्य आ शत्रुञ्जयात्,तस्य यद्वरं वलम्या. स्तत्र द्विरोदनं भोत्यामहे । एष्यतीति किम् ? योऽयमध्वा अतिक्रान्त आ शत्रुञ्जयात्, तस्य यदवरं वलभ्यास्तत्र युक्ताद् द्विरध्यैमहि । अवधाविति किम् ? योऽयमध्वा निरवधिको गन्तव्यः, तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे । अर्वाग्भाग इति किम् ? योऽयमध्वा गन्तव्य आ शत्रुञ्जयात् , तस्य यत् परं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे ॥६॥
१ अनेन भूतानद्यतने यस्तनी, भविष्यदनद्यतने च श्वस्तनी पूर्व विहिते ते बाधिते भवतः । जिनमहो जिनोत्सवः । मह उत्सवे ।