________________
[३७९)
स्वोपज्ञलघुवृत्तिः ॥ चतुर्थः पादः॥
सत्सामीप्ये सद्धत् वा। ५।४।१।। समीपमेव सामीप्यम् । वर्तमानस्य सामीप्ये भूते भवित ष्यति चार्थे वर्तमानाद्धातोर्वर्त्तमाना इव प्रत्यया वास्युः। कदा चैत्र ! आगतोऽसि ? अयमागच्छामि, आगच्छन्तमेव मां विद्धि । पक्षे, अयमागमम्, एषोऽस्म्यागतः, कदा चैत्र ! गमिष्यास ? एष गच्छामि, गच्छन्तमेव मां विद्धि । पक्षे, एष गमिष्यामि, गन्ताऽस्मि, गमिष्यन्तमेव मा विद्धि ॥१॥
भूतवत् चाऽऽशंस्ये वा।५।४।२। अनागतस्यार्थस्य प्राप्तुमिच्छा आशंसा, तद्विषय आशंस्यः । तदर्थाद्धातोभूतवत् सद्वच्च प्रत्यया वा स्युः। उपाध्यायश्चेदागमत् एते तर्कमध्यगीष्महि, उपाध्यायः श्रेदागच्छति, एते तर्कमधीमहे । पक्षे, उपाध्यायश्चेदागमिष्यन्ति, आगन्तावा,एते तर्कमध्येष्यामहे,अध्येतास्महे वा। आशंस्य इति किम् ? उपाध्याय आगमिष्यति, तर्कमध्येष्यते मैत्रः ॥ २ ॥
क्षिप्राऽऽशंसाऽर्थयोर्भविष्यन्ती-सप्त
___ म्यौ । ५। ४।३। क्षिप्रार्थाऽऽशंसायोरुपपदयोराशंस्यार्थाद् धातोर्यः थासङ्ख्यं भविष्यन्तीसप्तम्यौ स्याताम् । उपाध्यायश्चेक्षा गच्छति, आगमत् , आगमिष्यति, आगन्ता क्षिपमाशु एते सिद्धान्तमध्येष्यामहे, उपाध्यायश्चेदागच्छति, आगमका