________________
[३७८] हैमशब्दानुशासनस्य दुर-स्वीपतः कृच्छ्राकृड्रार्थात् खल् । ५ । ३ । १३९ ।
कृच्छ्रवृत्ते?रोऽर्थात् , अकृच्छ्रवृत्तिभ्यां च स्वीपद्भयां पराद्धातोः खल् स्यात् । दुःशयम् , दुष्करः, सुशयम् , सुकरा, ईपच्छयम् , ईषत्करः । कृच्छ्रार्थ इति किम् ? ईषल्लभ्यं धनम् ॥ १३९ ॥ च्व्यर्थे क प्याद् भू-कृगः । ५। ३ । १४०।
कृच्छ्राकृच्छ्रार्थेभ्यो दुःस्वीषद्भ्यः पराभ्यां व्यर्थवृत्तिकर्तृकर्मवाचिभ्यां यथासङ्ख्यं भूकृग्भ्यां परः खल् स्यात् । दुराढयंभवम् , स्वायंभवम्, ईषदाढ्यंभवं भवता, दुराख्यंकरः, स्वायंकरः, ईषंदाढयंकरश्चैत्रस्त्वया । व्यर्थ इति किम् ? दुराढथेन भूयते ॥ १४० ॥ शासू-युधि-दृशि-धृषि-मृषातोऽनः । ५।३ । १४१ । कृच्छाकृच्छ्रार्थदुःस्वीषत्पूर्वेभ्य एभ्यः, आदन्ताच धातोरनः स्यात् । दुःशासनः, सुशासनः, ईषच्छासनः, एवं दुर्योधनः, सुयोधनः, ईषद्योधनः, दुर्दर्शनः, दुर्धर्षणः, दुर्मर्षणः, दुरुत्थानम् ॥ १४१॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ पञ्चमस्याध्यायस्य ___ तृतीयः पादः समाप्तः ॥ ५। ३॥