________________
स्वोपज्ञलघुवृत्तिः [३७७] - न्यायाऽवायाऽध्यायोद्याव-संहाराऽवहाराऽऽधार-दार
जारम् । ५ । ३ । १३४ । एते पुन्नाम्नि करणाऽऽधारयोर्घजन्ता निपात्यन्ते । न्यायः, अवायः, अध्यायः, उद्यावः, संहारः, अवहारः, आधारः, दाराः, जारः ॥ १३४ ॥
उदकोऽतोये । ५ । ३ । १३५। उत्पूर्वादञ्चेः पुन्नाम्नि करणाऽऽधारयोर्घञ् स्यात् , न चेत् तोयविषयो धात्वर्थः । तैलोदैङ्कः। अतोय इति किम् ? उदकोदश्चनः ॥ १३५ ॥
आनायो जालम् । ५। ३ । १३६। आपूर्वात् नियः करणाऽऽधारे पुन्नाम्नि जालेऽर्थे घब् स्यात् । अनायो मत्स्यानाम् ॥ १३६ ॥
खनोंड-डर-इक-इकवक-धं च । ५।३।१३७।
खनेः पुन्नाम्नि करणाऽऽधारयोरेते घञ् च स्युः। आखः, आखरः, आखनिकः, आखनिकवका, आखनः, आखानः ॥ १३७॥
इ-कि-श्तिव स्वरूपाऽर्थे । ५। ३ ॥१३८ धातोः स्वरूपेऽर्थे च वाच्ये एते स्युः। भञ्जिः, क्रुधिः, वेत्तिः । अर्थे, यजेरङ्गानि, भुजिः क्रियते, पचतिः परिवर्तते ॥१३८ ॥
१ दाराशब्दः स्त्रीवाचकः पुंसि बहुवचने च प्रयुज्यते । “भूम्नि दारप्राणासुवल्वजाः" इत्युक्तेः ।
२ तैलमुदच्यतेऽनेनेति, "व्यञ्जनाद् घञ्" इति सिद्धे तोये बाधमार्थमिदं सूत्रितम् । समानरूपत्वात् “पुन्नाम्नि घः, इति घप्रत्ययोऽपि न स्यात् ।
३ डकारोऽन्लोपार्थः। चाद् घन, वित्त्वाद् वृद्धिः ।