SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ [३७६] हैमशब्दानुशासनस्य भुजि-पत्यादिभ्यः कर्माऽपादाने । ५। ३ । १२८ । - भुज्यादेः कर्मणि, पत्यादेश्चापादानेऽनट् स्यात् । भोजनम्, निरदनम्, प्रपतनः, अपादानम् ॥ १२८ ॥ करणाऽऽधारे । ५। ३ । १२९॥ अनयोरर्थयोर्धातोरनेट् स्याद् । एषणी, सक्तुधानी ॥१२९ ॥ पुन्नाम्नि घः । ५।३। १३० । पुंसः संज्ञायां गम्यायां धातोः करणाऽऽधारयोर्घः स्यात् । दन्तच्छदः, आकरः । पुमिति किम् ? विचयनी। नाम्नीति किम् ? प्रहरणो दण्डः ॥ १३०॥ गोचर-संचर वह-व्रज-व्यज-खलाऽऽपण-निगम-बकभगकषाऽऽकष-निकषम् । ५।३ । १३१ । एते करणाऽऽधारयोः पुन्नाम्नि घान्ता निपात्यन्ते । गोचरः, संचरः, वहः, व्रजः, व्यजा, खलः, आपणः, निगमः, बकः । बाहुलकात् कर्तरि भगः, बाहुलकाद् भगम्, कषः, आकषः, निकषः ॥ १३१ ॥ व्यञ्जनाद् घम् । ५।३ । १३२ । व्यञ्जनान्ताद्धातोः पुन्नाम्नि करणाऽऽधारयोर्घञ् स्यात् । वेदः ॥ १३२ ॥ अवात् तृ-स्तृभ्याम् । ५।३ । १३३॥ आभ्यामवपूर्वाभ्यां करणाऽऽधारयोः पुनानि घञ् स्यात् । अवतारः, अवस्तारः॥ १३३॥ १ भुज्यते इति भोजनम् । प्रपतत्यस्मादित्यपादाने प्रपतनः। २ घआदिवाधकमिदम् । इष्यते ऽनयति एषणी। सक्तुर्थीयतेऽस्यामिल्याधारे। ३ भज्यतेऽनेनास्मिन्निति वा भगः । भगमित्यत्र क्लीबे घः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy