SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [३५] स्यात् , यथालश्यं पुंसि च । प्रच्छईिका, शालभलिका, अरोचकः ॥ १२१ ॥ भावे ।५।३ । १२२। धात्वर्थनिर्देशे स्त्रियां धातोर्णकः स्यात् । शायिका ॥ १२२ ॥ क्लीबे क्तः । ५। ३ । १२३ । नपुंसके भावे धातोः क्तः स्यात् । हसितं तव । क्लीवे इति किम् ? हासः ॥ १२३ ॥ अनद । ५। ३। १२४ । क्लीवे भावेऽर्थे धातोरनट् स्यात्। गमनम् ॥१२४॥ यत्कर्मस्पर्शात् कर्बङ्गसुखं ततः । ५। ३ । १२५ । येन कर्मणा संस्पृष्टस्य कर्तुरङ्गस्य सुखं स्यात् ततः पराद् धातोः क्लीवे भावेऽनट् स्यात् । पयःपानं सुखम् । कर्मेति किम् ? तूलिकाया उत्थानं सुरवम् । स्पर्शादिति किम् ? अग्निकुण्डस्योपासनं सुखम् । कत्रिति किम् ? शिष्यण गुरोः स्थापनं सुखम् । अङ्गेति किम् ? पुत्रस्य परिष्वञ्जनं सुखम् । सुखमिति किम् ? कण्टकानां मर्दनम् । नित्य‘समासार्थमिदम् ।। १२५॥ रम्यादिभ्यः कर्तरि ५।३। १२६ । एभ्यः कर्तरि अनट् स्यात् । रमणी, कमनी ॥१२६॥ कारणम् ।५।३। १२७ । कृगः कर्तर्यनट, वृद्धिश्च स्यात् । कारणम् ॥१२७॥ १ पबसः पीति, पयःपानम् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy