________________
हैमशब्दानुशासनस्य
तिर्यचाऽपवर्गे | ५ | ४ | ८५ ।
क्रियासमाप्तौ गम्यायां तिर्यचाऽव्ययेन योगे तुल्यकर्तृकार्थात गो धातोः संबन्धे क्त्वाणमौ स्याताम | तिर्यक्कृत्वा, तिर्यक्कृत्य, तिर्यक्कारमास्ते । अपवर्ग इति किम् ? तिर्यक्कृत्वा काष्ठं गतः ॥ ८५ ॥ स्वाङ्गतस्र-च्व्यर्थ-नाना-विना-धाऽर्थेन
[३९८ ]
भुवश्च । ५ । ४ । ८६ ।
तसन्तेन स्वाङ्गेन, च्व्यर्थ वृत्तिभिर्नानाविनाभ्यां धाऽर्थप्रत्ययान्तैश्च योगे तुल्यकर्तृकार्थाद् भुवः कृगश्च धातोः संबन्धे क्त्वाणमौ स्याताम् । मूखत्तो भूत्वा मूखतोभूय, मूखतो भावमास्ते । नाना भूत्वा नानाभूय, नाना भावं गतः, विनाभूत्वा, विनाभूय, विनाभावं गतः, द्विधा भूत्वा, द्विधाभूय, द्विधाभावमास्ते, एवं पाश्र्वतः कृत्वा, पाइर्वतः कृत्य, पार्श्वतःकारं शेते इत्यादि । व्यर्थ इति किम् ? नाना कृत्वा भक्ष्याणि भुङ्क्ते ॥ ८६ ॥
तूष्णीमा । ५ । ४ । ८७ ।
तृष्णयोगे तुल्यकर्तृकार्थात् भुवो धातोः सम्बन्धे क्वाणमौ स्याताम् । तूष्णीं भूत्वा, तूष्णींभूय, तूष्णींभावमास्ते ॥ ८७ ॥
आनुलोम्येऽन्वचा । ५ । ४ । ८८ । अन्यचाsssयेन योगे तुल्यकर्तृकार्थाद् भुव आनु लोम्ये गम्ये धातोः सम्बन्धे क्त्वाणमौ स्याताम् । अन्वगूभूत्वा, अन्वग्भूय, अन्वग्भावमास्ते । आनुलोम्य इति किम् ? अन्वग्भूत्वा विजयते, पश्चाद्भूत्वेत्यर्थः ॥ ८८ ॥