SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ [३७२] हैमशब्दानुशासनस्य जागुरश्च । ५ । ३ । १०४ । जागुः स्त्रियां भावाकोंः अः, यश्च स्यात् । जागरा, जागर्या ॥ १०४ ॥ शंसि-प्रत्ययात् । ५। ३ । १०५ । - शंसेः प्रत्ययान्तात् च भावाकोंः स्त्रियामा स्यात् । प्रशंसा, गोपाया ॥ १०५॥ क्तेटो गुरोर्व्यञ्जनात् । ५।३।१०६। क्तस्येट यस्मात् ततो गुरुमतो व्यञ्जनान्ताद् धातो - वाकोंः स्त्रियामः स्यात् । ईहा । क्तेट इति किम् ? स्रस्तिः । गुरोरिति किम् ? स्फूर्तिः । व्यञ्जनादिति किम् ? संशीतिः॥ १०६ ॥ षितोऽङ् । ५। ३ । १०७ । पितो धातोर्भावाकोः स्त्रियामङ् स्यात् । पचा, जरा ॥ १०७॥ भिदादयः । ५। ३ । १०८ । एते भावाकोंः स्त्रियामङन्ता यथालक्ष्यं निपात्यन्ते। भिदा, छिदा ॥ १०८ ॥ भीषि-भूषि-चिन्ति-पूजि-कथि-कुम्बि-चर्चि-स्पृहि-तोलि दोलिभ्यः । ५ । ३ । १०९ । एभ्यो ण्यन्तेभ्यः स्त्रियां भावाकोरङ् स्यात् । भीषा, भूषा, चिन्ता, पूजा, कथा, कुम्बा, चर्चा, स्पृहा, तोला, दोला ।। १०९॥ १ भाय-पक-अनादिप्रत्ययेभ्यः। “आत् " (२-४-१८) सूत्रेणाऽऽप् प्रत्यवात् स्त्रियां प्रशंसादयः सिध्यन्ति ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy