________________
स्वोपझलघुवृत्तिः [३७३) उपसर्गादातः । ५। ३ । ११०। उपसर्गपूर्वाद् आदन्तात् स्त्रियां भावाकोरङ् स्यात् । उपदा । उपसर्गादिति किम् ? दत्तिः॥ ११० ॥ णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देश्नः । ५। ३।१११ ।
ण्यन्ताद् वेत्यादिभ्यश्च स्त्रियां भावाकोरन: स्यात् । कारणा, वेदना, आसना, श्रन्थना, घना, वन्दना ॥ १११ ॥
इषोऽनिच्छायाम् । ५।३। ११२ । अनिच्छार्थादिधेः स्त्रियां भावाकोरन: स्यात् । अन्वेषणा । अनिच्छायामिति किम् ? इष्टिः ॥ ११२ ॥
पर्यधेर्वा । ५। ३ । ११३ । आभ्यां परादनिच्छादि इषेर्भावाकोः स्त्रियामनो था स्यात् । पर्येषणा, परीष्टिः । अध्यषणा, अधीष्टिः ॥११३ ॥
क्रुध्-संपदादिभ्यः विप् । ५। ३।११४।
क्रुधादिभ्योऽनुपसर्गेभ्यः, पदादिभ्यश्च समादिपूर्वेभ्यः स्त्रियां भावाकों क्विप् स्यात् । क्रुक् युत्, संपत्, विपत् ॥ ११४ ॥
भ्यादिभ्यो वा। ५।३ । ११५॥ एभ्यः स्त्रियां भावाकोः क्विप् वा स्यात् । भीः, भीतिः । ह्री:, हीतिः ॥ ११५ ।। व्यतिहारेऽनीहादिभ्यो ञः। ५। ३ । ११६। व्यतीहारविषयेभ्य ईहादिवर्जेम्यो धातुभ्यः स्त्रियां