SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [३७१] : . भृगो नाम्नि । ५। ३ । ९८ । भृगो भावे स्त्रियां संज्ञायां क्यप् स्यात् । भृत्या । नाम्नीति किम् ? भृतिः ॥९८ ॥ समज-निपत्-निषद्-शीइ.सुग्-विदि-चरिमनीणः ।५।३ । ९९ । एभ्यो भावाकोंः स्त्रियां नाम्नि क्यप् स्यात् । समज्या, निपत्या, निषद्या, शय्या, सुत्या, विद्या, चर्या, मन्या, इत्या । नाम्नीत्येव ? संवीतिः ॥ ९९ ॥ कृगः शच वा । ५।३ । १००। कृगो भावाकोंः स्त्रियां शो वा स्यात्, क्या चं। क्रिया, कृत्या, कृतिः ॥ १० ॥ मृगयेच्छा-याचा-तृष्णा-कृपा-भा-श्रद्धाऽन्तर्दा ।५।३ । १०१। एते स्त्रियां निपात्यन्ते ॥ १०१॥ परेः सृ-चरेयः । ५।३ । १०२ । परिपूर्वाभ्यामाभ्यां भावाकोः स्त्रिां यः स्यात् । पंरिसर्या, परिचर्या ॥ १०२॥ वाऽटाट्यात् । ५।३ । १०३ । अटेर्यङन्तात् स्त्रियां भावाकोंर्यो वा स्यात् । अटाट्या, अटाटा ॥ १०३ ॥ १ करणं, क्रियतेऽनया वेति क्रिया। एवं सर्वत्रापि भावाकोरित्थं वचनप्रकारो वेद्यः । क्रियेति यदा मावकर्मणोः शस्तदा मध्ये क्यः । यदा त्वपादानादौ शस्तदा क्यो नास्तीति रे रिकारस्येयादेश इत्याचार्यः।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy