________________
[ ३७० ]
हैमशब्दानुशासनस्य
स्त्रियां क्तिः । ५ । ३ । ९१ । धातोर्भावाकत्रः स्त्रियां क्तिः स्यात् । कृतिः । स्त्रियामिति किम् ? कारः ॥ ९१ ॥ श्रवादिभ्यः | ५ | ३ | ९२ ॥
एम्यो धातुभ्यो भावmaal: स्त्रियां 'तिः स्यात् । श्रुतिः प्रतिश्रुत्, संपत्ति, संपत् ॥ ९२ ॥ समिणासुराः । ५ । ३ । ९३ ।
संपूर्वादिणः, आङ्पूर्वात् सुगश्च भावाकर्त्रीः स्त्रियां क्तिः स्यात् । समितिः, आसुतिः ॥ ९३ ॥ साति-ति-यति-ति-ज्ञप्ति - कीर्त्तिः । ५ । ३ । ९४ ।
ऐते भावाकः क्त्यन्ता निपात्यन्ते । सातिः, हेतिः, यूतिः, जूतिः, ज्ञप्तिः कीर्त्तिः ॥ ९४ ॥
"
गा-पा-पची - भावे । ५ । ३ । ९५ ।
एभ्यो भावे स्त्रियां क्तिः स्यात् । सङ्गीतिः प्रपीतिः, पंक्तिः ।। ९५ ।।
स्थो वा । ५ । ३ । ९६ ।
स्थो भावे स्त्रियां तिर्वा स्यात् । प्रस्थितिः, आस्था ॥ ९६ ॥
आस्यटि- व्रज्-यजः क्यप् । ५ । ३ । ९७ ।
एभ्यो भावे स्त्रियां क्यप् स्यात् । आस्या, अट्या, व्रज्या, इज्या ॥ ९७ ॥
१ उपसर्गाणामतन्त्रत्वात् विवादयोऽपि स्युः तेन प्रतिश्रुत् सम्पदित्यवि ।