________________
स्वोपक्षलघुतिः [३६७].
क्षु-श्रोः। ५।३ । ७१ । विपूर्वाभ्यामाभ्यां भावाकोंर्घञ् स्यात् । विक्षावः, विश्रावः ॥ ७१ ॥
न्युदो प्रः । ५। ३ । ७२। आभ्यां पराद् ग्रो भावाकोंर्घञ् स्यात । निगारः, उद्गारः ॥७२॥
किरो धान्ये । ५। ३ । ७३ । न्युत्पूर्वात् किरते/न्यविषयार्थात् भावाकोंपञ् स्यात् । निकारः, उत्कारो धान्यस्य । धान्य इति किम् ? फलनिकरः॥७३॥
नेवुः । ५।३।७४। निपूर्वाद् (कृणोतेषणातेर्वा) धान्यविशेषेऽर्थे भावाकोंर्घञ् स्यात्। नीवारा व्रीहयः ॥ ७४ ॥
. इणोऽभ्रेषे ।५।३।७५। । स्थितेरचलनमभ्रेषः, तद्विषयार्थात् निपूर्वाविणो भावाकोंर्घ स्यात् । न्यायः। अभ्रेष इति किम् ? न्ययं गतचौरः ॥ ७५ ॥
. परेः क्रमे । ५।३।७६ । .' क्रमः परिपाटिः, तद्विषयार्थात् परिपूर्वादिणो भावाकोंर्घञ् स्यात् । तव पर्यायो भोक्तुम् । क्रम इति किम् ? पर्ययो गुरोः॥ ७६ ॥
व्युपात् शीङः।५।३।७७ । आभ्यां परात् क्रमविषयार्थात् शीडो भावाकों धञ् स्यात् । तव राजविशायः, मम राजोपशायः । क्रम इति किम् ? विशयः॥ ७७॥ ...