________________
[३२] हेमशब्दानुशासनस्य
मूर्ति-निचिताऽभ्रे घनः ५ । ३ । ३७।
हन्तेर्मूयोदावर्थेऽल्, घनादेशश्च निपात्यते । मूर्तिः काठिन्यम् । अभ्रस्य घनः। निचितं निरन्तरम् । घनाः केशाः । अभ्रं मेघः। घनः ॥३७॥
व्ययो-द्रोः करणे। ५ । ३ । ३८ । एभ्यः पराद् हन्तेः करणेऽल घनादेशश्च निपात्यते। विघनः, अयोधना, द्रुघनः॥ ३८॥
स्तम्बाद् घनश्च । ५। ३ । ३९ । । स्तम्बात् पराद्धन्तेरल,मघनादेशौचनिपात्येते,करणे। स्तम्बघ्नो दण्डः, स्तम्बघनो यष्टिः ॥ ३९ ॥
परेघः । ५ । ३ । १०। - परिपूर्वाद्धन्तेरल्, घादेशश्च करणे निपात्यते । परिघोऽर्गला ॥ ४०॥ हुः समाह्वयाऽऽहयौ द्यूत-नाम्नोः। ५ । ३ । ४१ ।
यूते नाग्नि चार्थे यथासङ्ख्यं समाङ्पूर्वाद् आङ् पूर्वाव होऽल् हयादेशश्च निपात्यते । समाह्वयः प्राणियुतम् , आयः संज्ञा ॥४१॥
न्यभ्युप-वेवा श्चोत् । ५ । ३ । ४२ । ।। एभ्यः पराद् हो भावाकोरल् स्यात, तद्योगे वा उश्च । निहवः, अभिहवः उपहवः, विहवः ॥ ४२ ॥ .....
'या' इति ह्वा धातोरवयव उकारो भवतीति भावः, एवमुत्तस्त्रापि। “चादपोऽसत्वे" इति सूत्राद् वेत्यस्याम्ययत्वेऽपि प्रथमादिविभक्तौ न दोषः .. .