SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ [३१] स्वोपज्ञलघुवृतिः सृ-ग्लहः प्रजनाऽक्षे । ५।३।३११ आभ्यां यथासङ्ख्यं प्रजनाक्षविषयार्थवृत्तिभ्यां भावाकरल् स्यात् । गवामुपसरः, अक्षाणां ग्लहः । प्रजानाक्ष इति किम् ? उपमारो भृत्यै राज्ञाम् ॥ ३१ ॥ पणेर्माने । ५ । २ । ३२ । पणेनार्थाद् भावाकरल् स्यात् । मूलकपणः । मान इति किम् ? पाणः ॥ ३२ ॥ संमद-प्रमदौ हर्षे । ५ । ३ । ३३ । प्रमदो " एतौ भावाकर्षेऽर्थेऽलन्तौ स्याताम् । संमदः, 'वा स्त्रीणाम् । हर्ष इति किम् ? संमादः प्रमादः ॥ sa saण देशे । ५ । ३ । ३४ । अन्तःपूर्वाद हन्तेरल घनघणादेशौ च निपात्येते, देशेse भावाकः । अन्तर्धनः अन्तर्घणो वा देशः । अन्तघातोऽन्यः || ३४ ॥ प्रघण- प्रघाणौ गृहांशे । ५ । ३ । ३५ । पूर्वाद् हन्तेर्गृहांशेऽथेंडल घणघाणादेशौ च निपात्येते । प्रघणः, प्रघाणो वा द्वारालिन्दकः प्रघातोs न्यः ॥ ३५ ॥ निघोघ सङ्घोघनाऽपघनोपघ्नं निमित-प्रश स्त - गणाऽत्याधानाऽङ्गाऽऽसन्नम् | ५ | ३ | ३६ | हन्तेर्निघादयो यथासङ्ख्यं निमिताद्यर्थेषु कृतघत्वादयोsन्ता निपात्यन्ते । समन्ततो मितं निमितम् । निधा वृक्षाः, उदूधः प्रशस्तः, सङ्घः प्राणिसमूहः । अत्याधीयन्ते च्छेदनार्थी कुट्टनार्थे वा काष्ठादीनि यत्र तदत्याधानम् । उद्घनः, अपघनः शरीररावयवः, उपन्न आसन्नः ॥ ३६ ॥ ४६
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy