________________
हैमशब्दानुशासनस्य
सं-नि-व्युपाद् यमः | ५ | ३ | २५ |
. एभ्य उपसर्गेभ्यः पराद् यमेर्भार्वाकरल् वा स्यात् । संयमः संयामः । नियमः, नियामः । वियमः, वियामः । उपयमः, उपयामः ॥ २५ ॥
नेर्नद-गद -पठ-स्वन-कणः | ५|३| २६। · निरुपसर्गात् परेभ्य एभ्यो भावाकरल् वा स्यात् । निनदः, निनादः । निगवः, निगादः । निपठः, निपाठः । निस्वनः, निस्वानः । निक्वणः, निक्वाणः ॥ २६ ॥ वैणे स्वणः । ५ । ३ । २७ |
[ ३६० ]
वीणायां भवो वैणः । तदर्थादुपसर्गपूर्वात् क्वणेभीवाकरल् वा स्यात् । प्रक्वणः, प्रक्वाणो वीणायाः । वैण इति किम् १ प्रक्वाणः शृङ्खलस्य ॥ २७ ॥ युवर्ण-वृ-दृ-वश-रण- गम्-ऋग्रहः । ५ । ३ । ३८।
वर्णो वर्णान्तेभ्यो वादेर्ऋदन्तेभ्यो ग्रहेश्व भावकरल् स्यात् । चयः, ऋयः, स्वः, लवः, वरः, आदरः, वशः, रणः, गमः, करः, ग्रहः ॥ २८ ॥
वर्षादयः क्लीबे । ५ । ३ । २९ ।
:
एतेऽलन्ताः क्लीवे यथादर्शनं भावाकर्निपात्यन्ते । वर्षम्, भयम् ॥ २९ ॥
समुदाऽजः पशौ | ५ | ३ | ३० ।
आभ्यां परादजः पशुविषयार्थवृत्ते भावाकरल् स्यात् । समजः पशूनाम्, उदजः पशूनाम् । पशाविति किम् ? समाजो नृणाम् ॥ ३० ॥