SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुत्तिः [३६३] . आडो युद्धे । ५ । ३ । ४३ । - आङो हो युद्धेऽर्थे भावाकोरल् स्यात्, वा उइच । आहवो युद्धम् । युद्ध इति किम् ? आवायः ॥ ४३ ॥ आहावो निपानम् । ५ । ३ । ४४ । निपानं पश्वादिपानार्थो जलाधारः। तस्मिन्नर्थे आङ्पूर्वाद् ह्वो भावाकोरल, आहावादेशश्च निपात्यते । आहावो वीनाम् ॥ ४४ ॥ भावेऽनुपसर्गात् ।५।३ । ४५ । अनुपसर्गाद् भावे द्वोऽल स्यात् , वा उश्च । हवः । भाव इति किम् ? व्याप्ये वायः। अनुपसर्गादिति किम् ? आवायः॥ ४५ ॥ हनो वा वध् च । ५। ३ । ४६ । अनुपसर्गाद् हन्तेर्भावेऽल् वा स्यात् , तद्योगे च हनो वधू । वधः, घातः॥४६॥ व्यध-जप-मद्भयः। ५।३ । ४७ । एभ्योऽनुपसर्गेभ्यो भावाकोरल् स्यात् । व्यधः जपा, मदः ॥ ४७॥ नवा क्वण-यम-हस स्वनः । ५।३।४८ अनुपसर्गेभ्य एभ्यो भावाकोरल् वा स्यात् । स्वणः, क्वाणः । यम यामः। हसः, हासः। स्वनः । स्वानः ॥४९॥ आङो रु-प्लाः । ५ । ३ । ४९ । . आङः पराभ्यां रुप्लुभ्यां भानाकोरल् वा स्यात् । आरवः, आरावः । आप्लवः, आप्लावः ॥ ४९॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy