________________
[३५२] हेमशब्दानुशासनस्य निन्द-हिंस-क्लिश-खाद-विनाशि-व्याभाषाऽसूयाऽ
नेकस्वरात् । ५।२।६८। एभ्यः शीलादिसदर्थेभ्यो णकः स्यात् । निन्दकः, हिंसकः, क्लेशकः, खादकः, विनाशकः, ब्याभाषका, असूयकः, चकासकः ॥ ६८ ॥
उपसर्गाद् देव-देवि-कुशः । ५।२।६९। उपसर्गात् परेभ्यः शीलादिसदर्थेभ्य एभ्यो णकः स्यात् । आदेवकः, परिदेवका, आक्रोशकः ॥ ६९ ॥ . वृड्-भिक्षि-लुण्टि-जल्पि-कुट्टात् टाकः ।५।२।७०)
एभ्याशीलादिसदर्थेभ्यष्टाकः स्यात्। वराकी, भिक्षाकः, लुण्टाकः, जल्पाकः, कुट्टाकः ॥ ७० ॥ ,
प्रात् सू-जोरिन् । ५ । २ । ७१ । ... आभ्यां प्रात् पराभ्यां शीलादिसदाभ्यांइन् स्यात् । प्रसवी, प्रजवी ॥ ७१ ॥ जि-इण-दृ-क्षि-विश्रि-परिभू चमाऽभ्यमऽ
व्यथः । ५१२ । ७२ । एभ्यः शीलादिसदर्थेभ्य इन् स्यात् । जयी, अत्यपी, आदरी, क्षयी, विश्रयी, परिभवी, वमी, अभ्यमी, अव्यथी ॥ ७२ ॥
सृ-घस्यदो मरक् । ५। २ । ७३ । एभ्यः शीलादिसदर्थेभ्यो मरक् स्यात्। समरः, घस्मरः, अमरः ॥७३॥
देव देवने । देवीत्पनेन दीन्यतेदेखते ण्यन्तस्य ग्रहणम् । लक्षणप्रतिपदेल्यस्य न्यायस्यानित्यत्वात् । अथका भिन्नदेवृप्रहणादिति न्यासकारः।