SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [३५३] - भासि - मिदो घुरः | ५ | २ | ७४ ॥ एभ्यः शीलादिसदर्थेभ्यो घुरः स्यात् । भगुरम्, भासुरम्, मेदुरम् ॥ ७४ ॥ वेत्तिच्छिद-भिदः कित् । ५ । २ । ७५ | एभ्यः शीलादिसदर्थेभ्यः किद् घुरः स्यात् । विदुरः, छिदुरः, भिदुरः ॥ ७५ ॥ भियो रु रुक-लुकम् । ५ । २ । ७६ । शीलादिसदर्थाद भियः कित एते स्युः । भीरुः, भीरुकः, भीलुकः ॥ ७६ ॥ सृ-जि- इण्-नशः ट्वरप् । ५ । ३ । ७७ । एभ्यः शीलादिसदर्थेभ्यः कित् दूद्वरप् स्यात् । सुत्वरी, जित्वरी, इत्वरः, नश्वरः ॥ ७७ ॥ गत्वरः । ५ । २ | ७८ | गमेष्ट्वरपू मश्च त् निपात्यते । गत्वरी ॥ ७८ ॥ स्मि-अजस हिंस-दीप- कंम्प-कम-नमो रः | ५ | २|७९| एभ्यः शीलादिसदर्थेभ्यो रः स्यात् । स्मेरम्, अजस्रम्, हिंस्रः, दीपः, कम्प्रः, कम्रः, नम्रः ॥ ७९ ॥ तृषि - धृषि - स्वपो नजि· | ५ | २ | ८० । एभ्यः शीलादिसदर्थेभ्यो नजिङ् स्यात् । तृष्णक्, धृष्णक, स्वप्नजौ ॥ ८० ॥ स्थेश भास- पिस कसो वरः । ५ । २ । ८१ । एभ्यः शीलादिसदर्थेभ्यो वरः स्यात् । स्थावरः, ईश्वरः, भास्वरः, पेस्वरः, विकस्वरः ॥ ८१ ॥ यायावारः । ५ । २ । ८२ । यातेर्यङन्तात् शीलादिसदर्थाद् वरः यायावरः ।। ८२ ॥ ४५ स्यात् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy